SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अष्टमम् अध्ययनम् २८३ कषायादिसेनया विरुद्धः सन् समाप्तायुधः सम्पूर्णतपःप्रभृतिखङ्गायुधः. । । ८.६१।। (सु.) आचारप्रणिधिफलमाह - तवं चिमं इति, तपश्चेदमनशनादिरूपं साधुलोकप्रतीतं, संयमयोगं च पृथिव्यादिविषयं संयमव्यापारं च स्वाध्यायादियोगं चवाचनादिव्यापारं, सदा-सर्वकालमधिष्ठाता - तपःप्रभृतीनां कर्त्तेत्यर्थः, इह च तपोऽभिधानात् तद्ग्रहणेऽपि स्वाध्याययोगस्य प्राधान्यख्यापनार्थं भेदेनाभिधानमिति । स एवंभूतः शूर इव-विक्रान्तभट इव सेनया - चतुरङ्गरूपया इन्द्रियकषायादिसेनया निरुद्धः सन्, समाप्तायुधः-संपूर्णतपःप्रभृति-खड्गाद्यायुधः, अलं - अत्यर्थमात्मनो भवति, संरक्षणायै अलं च परेषां निवा(राक) रणायेति ।।८.६१ ।। सज्झाय सज्झाणरयस्स ताइणो, अपावभावस्स तवे रयस्स । विसुज्झई जंसि मलं पुरेकडं, समीरियं रूप्पमलं व जोइणा ।।८.६२ ।। (ति.) एतदेव स्पष्टयन्नाह – स्वाध्याय - सद्ध्यानरतस्य तायिनः । अपापभावस्य तपसि रतस्य विशुद्ध्यते योऽस्य । मलः- कर्मरूपः । पुराकृतः । समीरितः- प्रेरितः । रूप्यमल इव । ज्योतिषा - अग्निना ।।८.६२।। · (स.) एतदेव स्पष्टयन्नाह - सज्झायः ... इ- अस्य साधोर्यन्मलं कर्ममलं तद् विशुद्ध्यते अपैति दूरे यातीत्यर्थः, किम्भूतं मलं ? पुराकृतं. जन्मान्तरेषु उपात्तमुपार्जितं, केन किंवत् ? यथा रूप्यमलं किम्भूतं रूप्यमलं ? समीरितं प्रेरितं केन ? ज्योतिषाग्निना, किम्भूतस्य साधोः ? स्वाध्यायसद्ध्यानरतस्य, स्वाध्याय एव सद्ध्यानं स्वाध्याय सद्ध्यानं, तत्र रतस्यासक्तस्य, पुनः किम्भूतस्य साधोः ? त्रातुः स्वस्य परस्योभयेषां च रक्षणशीलस्य, पुनः किम्भूतस्य साधोः ? अपापभावस्य लब्ध्यादीनां या अपेक्षा तया रहिततया शुद्धचित्तस्य, पुनः किम्भूतस्य साधोः ? तपस्यनशनादौ द्वादशविधे रतस्य, एवंविधस्य शुद्धस्य साधोः पापं दूरे यातीति परमार्थः ।।८.६२।। (सु.) एतदेव स्पष्टयन्नाह-सज्झाय इति, स्वाध्याय एव सद्ध्यानं स्वाध्यायसद्ध्यानं, तत्र रतस्य-आसक्तस्य त्रातुः स्वपरोभयत्राणशीलस्य अपापभावस्य - लब्ध्याद्यपेक्षारहिततया शुद्धचित्तस्य तपसि - अनशनादौ यथाशक्त्या रतस्य, विशुद्ध्यते अपैति, यदस्य साधोर्मलंकर्ममलं पुराकृतं-जन्मान्तरोपात्तं, दृष्टान्तमाह- समीरितं-प्रेरितं, रूप्यमलमिव ज्योतिषाअग्निनेति ।।८.६२॥
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy