________________
दशवैकालिकं- टीकात्रिकयुतम् अनुपालयेत्-प्रवर्द्धमानां कुर्यात् । क्व गुणे ? लोकोत्तरगुणरूपे । आचार्यसम्मतेउपलक्षणत्वात् तीर्थकरादिबहुमते ।।८.६० ।।
२८२
(स.) जाइ इति - पुनः किञ्च साधुस्तामेव श्रद्धामप्रतिपातितया प्रवर्धमानां गुणेषु मूलगुणादिलक्षणेषु पालयेत् किम्भूतेषु गुणेषु ? आचार्यसम्मतेषु तीर्थकरादिमतेषु, तां कां ? यया श्रद्धया प्रधानगुणस्वीकाररूपया निष्क्रान्तोऽविरतिकर्दमात्, दीक्षास्थानमुत्तमं प्रधानं प्राप्तः ।।८.६० ।।
(सु.) किञ्च - जाइ इति, यया श्रद्धया - प्रधानगुणस्वीकरणरूपया निष्क्रान्तोऽविरतिजम्बालात्, पर्यायस्थानं - प्रव्रज्यारूपं उत्तमं - प्रधानं प्राप्त इत्यर्थः, तामेव श्रद्धामप्रतिपातितया प्रवर्धमानामनुपालयेद् यत्नेन, क्व ? इत्याह-गुणेषु - मूलगुणादिलक्षणेषु आचार्यसंमतेषु-तीर्थंकरादिबहुमतेषु, अन्ये तु श्रद्धाविशेषणमित्येतद् व्याचक्षते, तामेव श्रद्धामनुपालयेद्-गुणेषु, किंभूतां आचार्यसम्मतां, न तु स्वाग्रहकलङ्कितामिति ।।८.६०।।
तवं चिमं संजमजोगयं च सज्झायजोगं च सया अहिट्ठए ।
1
सूरेव सेणाइ सम्मत्तमाउहे, अलमप्पणो होइ अलं परेसिं ।।८.६१।।
(ति.) आचारप्रणिधिफलमाह - तपश्चेदम् - अनशनादि । संयमयोगकं चपृथिव्यादिविषयम्, संयमव्यापारं स्वार्थे कः । स्वाध्याययोगं च- सूत्रार्थवाचनादिकम् । अधिष्ठाता-तपःप्रभृतीन् कर्ता, तृन् प्रत्ययस्य निष्ठादित्वात् कर्मणि न षष्ठी । इह तपोऽभिधानाद् ग्रहणेऽपि स्वाध्यायस्य प्राधान्यख्यापनार्थं पृथक्करणम् । स एवम्भूतः सूर इव-सुभट इव । चतुरङ्गया सेनया - साधुः कषायेन्द्रियसेनया निरुद्धः सन् । समस्तायुधसंपूर्णः-तपःप्रभृतिखङ्गाद्यायुधः । अलमात्मनो भवति - संरक्षणाय । अलं परेषाम्-उपासकानाम् ।।८.६१।।
(स.) अथाचारप्रणिधिफलमाह - तवं ' इति - साधुरेवंविधः सन् शूर इव विक्रान्तसुभट इव, अलमत्यर्थमात्मनः संरक्षणाय, अलं च परेषां निवारणाय भवति, किम्भूतः साधुः ? तपश्चेदमनशनादि द्वादशभेदरूपं सर्वसाधुप्रसिद्धं, संयमयोगं च पृथिव्यादिविषयसंयमव्यापारं च स्वाध्याययोगञ्च वाचनादिव्यापारं च सदा सर्वकालमधिष्ठाता तपःप्रभृतीनां कर्ता इत्यर्थः किम्भूतः शूरः ? सेनया चतुरङ्गबलरूपया इन्द्रिय