________________
अष्टमम् अध्ययनम्
२५३
(सु.) त्रसविधिमाह—त्रसप्राणिनो- द्वीन्द्रियादीन् न हिंस्यात्, कथम् ? - इत्याहवाचा अथवा कर्मणा-कायेन, मनसस्तदन्तर्गतत्वादग्रहणं, अपि चोपरतः सर्व्वभूतेषु निक्षिप्तदण्डः सन् पश्येद् विविधं जगत्- कर्म्मपरतन्त्रं नरकादिगतिरूपं निर्वेदायेति उक्तः स्थूलविधिः ।।८.१२ । ।
अट्ठ सुहुमाणि पेहाए, जाई जाणित्तु संजए ।
दयाहिगारी भूएसु, आस चिट्ठ सइज्ज वा ।।८. १३ ।।
(ति.) अथ सूक्ष्मविधिमाह - अष्टौ । सूक्ष्माणि प्रेक्ष्य - वक्ष्यमाणानि । यानि ज्ञात्वा संयतः । दयाधिकारी भूतेषु । आसीत तिष्ठेत् शयीत वा ।।८.१३ ।।
(स.) सूक्ष्मविधिमाह - अट्ठ... इति - संयतः साधुरष्टौ सूक्ष्माण्यग्रे वक्ष्यमाणानि प्रेक्ष्य निरीक्ष्योपयोगत आसीत तिष्ठेच्छयीत वेति योगः, किंभूतानि सूक्ष्माणि ?इत्याह-यानि ज्ञात्वा-संयतो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च भूतेषु दयाधिकारी भवति, अन्यथा दयाधिकार्येव न स्यात्, तानि प्रेक्ष्य तद्रहित एवासनादि कुर्यात्, अन्यथा तेषां सातिचारतेति. ।।८.१३ ।।
(सु.) अथ सूक्ष्मविधिमाह - अट्ठ इति, अष्टौ सूक्ष्माणि वक्ष्यमाणानि प्रेक्ष्योपयोगतः आसीत तिष्ठेत् शयीत वेति योगः, किंविशिष्टानि ? - इत्याह- यानि ज्ञात्वा संयतो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च दयाधिकारी भूतेषु भवति, अन्यथा दयाधिकार्येव नेति तानि प्रेक्ष्य तद्रहित एवासनादीनि कुर्यात्, अन्यथा तेषां विराधनेन सातिचारतेति ।।८.१३ ।।
कयराणि अट्ठ सुहुमाणि, जाइ पुच्छिज्ज संजए । इमाणि ताणि मेहावी, आइक्खिज्ज वियक्खणो ।।८.१४।।
(ति.) कश्चिदाह - कर्तराण्यष्टौ सूक्ष्माणि यानि पृच्छेत् संयतः । इमानि तानि । मेधावी-मर्यादावर्त्ती । आचक्षीत विचक्षणः ।।८.१४ ।।
(स.) कानि पुनस्तान्यष्टौ ? - इत्याह- कयराइं ' इति - कतराणि तान्यष्टौ सूक्ष्माणि ? यानि दयाधिकारित्वस्याभावभयात् पृच्छेत् संयतः अनेन दयाधिकारिण एवंविधेषु
१. सुहुमाई....सएहि वा ।। इति पाठोऽन्यत्र मुद्रितः ।।