SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २५२ दशवैकालिकं-टीकात्रिकयुतम् (ति.) तथा-गहनेषु-वननिकुञ्जषु । न तिष्ठेत् । बीजेषु-गृहाङ्गणप्रसारितेषु । शाल्यादिषु । उदके तथा नित्यम्-"जत्थ जलं तत्थ वणं" इति [ ] वचनात् उभयविराधना । उत्तिङ्ग-पनकयोर्वा-उत्तिङ्ग:-सिलिध्रातपत्राणि, पनकः-पञ्चवर्णाप्युल्लिः। सर्वत्र सङ्घट्टादिदोषः ।।८.११।। (स.) पुनः किं न कुर्यादित्याह-गहणेसु...इतिसाधुर्गहनेषु वनेषु निकुञ्जेषु न तिष्ठेत्, सङ्घट्टनादिदोषप्रसङ्गात्, तथा बीजेषु प्रसारितशाल्यादिषु वा, तथा हरितेषु (वा) दूर्वादिषु न तिष्ठेत्, उदके तथा नित्यं, तत्रोदकमनन्तवनस्पतिविशेषः, यथोक्तं'उदए अवए पणए' [ ] इत्यादि, उदकमेवेत्यन्ये, तत्र नियमतो वनस्पतिभावात्, तथा उत्तिङ्ग-पनकयोर्वा न तिष्ठेत्, तत्रोत्तिङ्गः सर्पच्छत्रादिः, पनक उल्लिवनस्पतिरिति | उक्तो वनस्पतिकायविधिः ।।८.११।। (सु.) तथा गहणेसु, गहनेषु-वननिकुञ्जेषु च न तिष्ठेत्, सङ्घट्टनादिदोषप्रसङ्गात्, तथा बीजेषु-प्रसारितशाल्यादिषु, हरितेषु वा-दूर्वादिषु न तिष्ठेत्, उदके तथा नित्यं, अत्रोदकं-अनन्तवनस्पतिविशेषः, यथोक्तं-"उदए अवए पणए" [ ] इत्यादि, उदकमेवान्ये, तत्र नियमतो वनस्पतिभावात्, उत्तिङ्ग-पनकयोर्वा न तिष्ठेत्, तत्रोत्तिङ्ग:सर्पच्छत्रादिः पनकः-उल्लिवनस्पतिरिति, उक्तो वनस्पतिविधिः ||८.११।। तसे पाणे न हिसिज्जा, वाया अदुव कम्मुणा | उवरओ सब्वभूएसु, पासि(से)ज्ज विविहं जगं ।।८.१२ ।। (ति.) त्रसविधिमाह-त्रसान् प्राणान् न हिंस्याद् । वाचा अथवा । कर्मणाकायेन । तदन्तर्गतत्वान्मनसापि । उपरतः-निवृत्तो हिंसातः । सर्वभूतेषु पश्येद् विविधं जगत्-कर्मपरतन्त्र(त्र) निर्वेदायेति उक्तः स्थूलविधिः ।।८.१२ ।। (स.) अथ त्रसकायविधिमाह-तस इति-साधुस्त्रसान् प्राणिनो द्वीन्द्रियादीन् न हिंस्यात्, कथम् ?-इत्याह-वाचा वचनेन, अथ वा कर्मणा कायेन, मनसोऽपि ग्रहणं कार्यं, तस्य तयोरन्तर्गतत्वात्, पुनः साधुरुपरतः सन्, केषु ? सर्वभूतेषु. दूरीकृतदण्डः सन्, पश्येत् विविधं जगत् कर्मपरतन्त्रं नरकादिगतिरूपं निर्वेदायेति सूत्रार्थः. उक्तः स्थूलविधिः ।।८.१२।। १. वनस्पतिविधिरित्यपि दृश्यते ।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy