SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ सप्तमम् अध्ययनम् २३५ इदमेव पद्यमर्थान्तरेण व्याख्यानयति- सुकडे ' इति सुष्ठु कृतं वैयावृत्त्यमनेन, सुपक्कि त्ति सुपक्वं ब्रह्मचर्यं साधोः, सुछिन्नमिति सुष्ठु छिन्नं स्नेहबन्धनमनेन, सुहृतमिति सुष्ठु हृतं शिष्यकोपकरणमुपसर्गे, सुमृतमिति सुष्ठु मृतः पण्डितमरणेन साधुरिति, अत्र सुशब्दोऽनुवर्तते, सुनिष्ठितं कर्म अप्रमत्तसंयतस्य सुलट्ठि त्ति सुन्दरा साधुक्रिया इत्येवमादिरिति. ।।७.४१।। (सु.) तत्र निष्ठितं नैव ब्रूयात् - इत्याह- सुकडि... इति, सुष्ठु कृतं सुकृतं सभादि, सुपक्कमिति, सुष्ठु पक्वं सहस्रपाकादि, सुच्छिन्नमिति - सुष्ठु छिन्नं तद् वनादि, सुहृतमितिसुष्ठु हृतं क्षुद्रस्य वित्तमिति, सुमृत इति - सुष्ठु मृतः प्रत्यनीक इति, अत्रापि सुशब्दोऽनुवर्त्तते, सुनिष्ठितमिति सुष्ठु निष्ठितं वित्ताभिमानिनो वित्तं, सुलट्ठित्तिसुष्ठु सुन्दरा कन्या इति, सावद्यमालपनं वर्जयेन्मुनिरनुमत्यादिदोषप्रसङ्गात्, निरवद्यं तु न वर्जयेत्, यथा-सुकृतमिति सुष्ठु कृतं वैयावृत्त्यमनेन, सुपक्वमिति - सुष्ठु पक्वं ब्रह्मचर्यं साधोः, सुच्छिन्नमिति - सुष्ठु छिन्नं स्नेहबन्धनमनेन, सुहृतमिति सुष्ठु हृतं शिक्षकोपकरणमुपसर्गे, सुमृत इति-सुष्ठु मृतः पण्डितमरणेन साधुरिति, अत्रापि सुशब्दोऽनुवर्त्तते, सुनिष्ठितं - सुष्ठु निष्ठितं कर्म्माप्रमत्तसंयतस्य, सुलट्ठ त्ति - सुष्ठु सुन्दरा साधुक्रियेत्येवमादिरिति ।।७.४१ ।। पयत्तपक्क त्ति व पक्कमालवे, पयत्तच्छिन्न त्ति व छिन्नमालवे । पयत्तलट्ठत्ति व कम्महेउयं, पहारगाढ त्ति व गाढमालवे ।।७.४२ । । (ति.) उक्तानुक्तापवादविधिमाह-प्रयत्नपक्वमेतत् । पक्वम्-सहस्रपाकादिग्लानार्थम् । प्रयत्नछिन्नमिति । छिन्नम् दुःकर्म तपसा । प्रयत्नलष्टेति - प्रयत्नेन पालनया लष्टा-सुन्दरा कन्या दीक्षार्हा । इत्येवमालपेत् कर्महेतुकम् - सर्वमपि सुकृतादि कर्मनिमित्तमित्यालपेत् । प्रहारगाढमिति - गाढप्रहारं नरम् । गाढमित्यालपेत् - पुनः पुनरालपेदित्यस्याख्यानं भूयोऽप्येतदालपतां न दोष इति ज्ञापनार्थम् ।।७.४२।। 1 (स.) उक्तानुक्तविधिमाह - पयत्त... इति - साधुग्र्ग्यानप्रयोजने प्रयत्नपक्वमिति वा प्रयत्नपक्वमेतत्, पक्वं सहस्रपाकादि एवमालपेत्, तथा प्रयत्नछिन्नमिति वा प्रयत्नछिन्नमेतद् वनादि, साधुनिवेदनादावेवमालपेत्, तथा 'पयत्तलट्ठा' इति वा प्रयत्नसुन्दरा कन्या दीक्षिता सती सम्यक्पालनीयेति, कर्महेतुकमिति सर्वमेव कृतादिकर्मनिमित्त-मालपेदिति योगः, गाढप्रहारमिति वा कञ्चन गाढमालपेत् गाढप्रहारं
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy