SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकं-टीकात्रिकयुतम् (स.) वाग्विधिप्रतिषेधाधिकार एवेदमाह - तहेव... इति - तथैव मुनिः साधुः सावद्यं योगं सपापं व्यापारमधिकरणसभादिविषयं परस्यार्थाय परनिमित्तं निष्ठितं निष्पन्नं न ब्रूयात्, तथा क्रियमाणं, वाशब्दाद्-भविष्यत्कालभाविनं वा ज्ञात्वा सावद्यं नालपेत् सपापं न ब्रूयात्. ।।७.४० ।। २३४ (सु.) वाग्विधिप्रतिषेधाधिकार एवेदमाह - तहेव... इति, तथैव सावद्यं - सपापं, योगं-व्यापारं अधिकरणं सभादिविषयं परस्यार्थाय परनिमित्तं निष्ठितं-निष्पन्नं तथा क्रियमाणं वा वर्त्तमानं वाशब्दात् भविष्यत्काले भाविनं वा, ज्ञात्वा सावद्यं नालपेत् सपापं न ब्रूयान्मुनिः- साधुरिति ।।७.४० ।। कत्ति सुपक्कि त्ति, सुच्छिन्ने सुहडे मडे । सुनिट्टि सुट्टित्ति, सावज्जं वज्जए मुणी ।।७.४१ ।। (ति.) अथैकेनैव श्लोकेन सावद्यवर्जनाऽनवद्याऽवर्जनं चाह - सुकृतमिति - सुष्ठु कृतं सभादि । सुपक्वमिति - सुष्ठु पक्वं सहस्रपाकादि । सुच्छिन्नमिति - सुष्ठु च्छिन्नं वनादि । सुहृतमिति-सुष्ठु हृतं क्षुद्रस्य वित्तम् । सुमृतमिति - सुष्ठु मृतः प्रत्यनीकः । अत्रापि सुशब्दोऽनुवर्तते । सुनिष्ठितमिति-सुष्ठु निष्ठितं वित्ताभिमानिनो वित्तम् । सुलष्टेति-सुष्ठु-सुन्दरा कन्या । इत्येव सावद्यं वर्जयेत् मुनिः- अनुमत्यादिदोषप्रसङ्गात् । निरवद्यं न वर्जयेद् यथा । सुकृतमिति - सुष्ठु कृतं वैयावृत्यमनेन । सुपक्वमिति - सुष्ठु पक्वं ब्रह्मचर्यं साधोः । सुच्छिन्नमिति - सुष्ठु च्छिन्नं स्नेहबन्धनमनेन । सुहृतमिति सुष्ठु हृतं शिष्यस्य कोपकरणमुपसर्गे । सुमृत इति - सुष्ठु मृतः पण्डितमरणेन साधुः । अत्रापि सुशब्दोऽनुवर्तते । सुनिष्ठितमिति सुष्ठु निष्ठितं कर्माप्रमत्तसंयतस्य । सुलष्टेतिसुष्ठु - सुन्दरा, साधुक्रियेत्येवमादीति ।।७.४१।। (स.) तत्र निष्ठितं नैवं वदे ( ब्रूया ) दित्याह - सुकंडि त्ति - मुनिः साधुरिति सावद्यं सपापमिति वक्ष्यमाणप्रकारेण वर्जयेत्, इतीति किं ? तदाह - सुकृतमिति सुष्ठु कृतं सभादि. सुपक्कं इति सुष्ठु पक्वं सहस्रपाकादि, सुच्छिन्ने' इति सुष्ठु छिन्नं वनादि, सुडे' इति सुष्ठु हृतं क्षुद्रस्य वित्तं, मडे' इति सुष्ठु मृतः प्रत्यनीक इति, अत्रापि सुशब्दोऽनुवर्तते, सुनिट्ठिए' इति सुष्ठु निष्ठितं वित्ताभिमानिनो वित्तं, सुलट्ठि त्ति सुष्ठु सुन्दरा कन्येत्येवं सावद्यमालपनं वर्जयेन्मुनिः, अनुमत्यादिदोष-प्रसङ्गात्, निरवद्यं निष्पापं तु वदेत्,
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy