SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकं - टीकात्रिकयुतम् २३० बद्धास्थीनि फलानि येषु ते तथा, अनेन पाकखाद्यार्थ उक्तः, वदेद् बहुनि - संभूतानि - पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथाविधाः, अनेन वेलोचितार्थ उक्तः, तथा भूतरूपा इति वा पुनर्वदेद् भूतानि रूपाणि-अबद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षित इति ।।७.३३ ।। तहेवोसहिओ पक्काओ, नीलियाओ छवीइ य । लाइमा भज्जिमा त्ति, पिहुखज्ज त्ति नो वए ।।७.३४ ।। (ति.) तथैवौषधयः- शाल्याद्याः । पक्वः । नि(नी) लिकाश्छवयः- वल्लच पलकादयः । फलिकाः । लवनयोग्याः । भर्जनयोग्याः । पृथुकखाद्या इति नो वदेत् । दोषः संयमविराधना ।।७.३४ ।। (स.) पुनराह - तहा' इति - तथैव तेनैव प्रकारेणौषधयः शाल्यादिलक्षणाः पक्वा इति नो वदेत्, तथा नीलाश्छवय इति वल्ल - चवलकादिफललक्षणाः, तथा लवनवत्यो लवनयोग्याः, भर्जनवत्य इति भर्जनयोग्याः, तथा पृथुकभक्ष्या इति नो वदेत्, पृथुकभक्षणयोग्या इति नो वदेदिति पदं सर्वत्र संबद्ध्यते, पृथुका अर्धपक्वशाल्यादिषु क्रियन्ते, अभिधानदोषाः पूर्ववत्. । ।७.३४ ।। (सु.) तह...इति, तथैवौषधयः- शाल्यादिलक्षणाः पक्वा इति तथा नीलाश्छवय इति, वल्ल चनकादिफललक्षणाः, तथा लवनवत्यो - लवनयोग्याः, भर्जनवत्य इतिभर्जनयोग्याः, पृथुकभक्ष्या इति नो वदेत् पृथुकभक्षणयोग्याः, नो वदेदिति सर्वत्र सम्बध्यते, पृथुका अर्द्धपक्वशाल्यादिषु क्रियन्ते, अभिधानदोषाः पूर्ववदिति ।।७.३४।। रूढा बहुसंभूया, थिरा उसढाइ य । गब्भियाओ पसुयाओ, संसाराउ त्ति आलवे ।।३५।। (ति.) कार्ये तु मार्गदेशनादौ एवमापते ( मालपे )द्, इत्याह-रूढाः-प्रादुर्भूताः । बहुसम्भूताः-निःपन्नप्रायाः । स्थिराः - उत्खायान्यत्र रोपितत्वादचाल्याः । उत्सृताःप्रवृद्धाः । गर्भिताः-अनिर्गतशीर्षाः । प्रसूताः - निर्गतशीर्षाः । संसाराः सञ्जाततन्दुलाः । इत्यालपेत् ।।७.३५।। १. अन्यत्र 'ओ ओस...इति पाठः मुद्रितः ।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy