SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सप्तमम् अध्ययनम् गृहिप्रवृत्त्याधिकरणादय इति ।।७.३२ ।। (सु.) तहा फलाई पक्काइं... इति, तथा फलानि - आम्रफलादीनि पक्वानि - पाकप्राप्तानि, तथा पाकखाद्यानि - बद्धास्थीनि गर्त्ताप्रक्षेप - कोद्रव - पलालादिना विपाच्य भक्षणयोग्यानीति नो वदेत्, तथा वेलोचितानि - पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, टालानि - अबद्धास्थीनि कोमलानीति यदुक्तं भवति, तथा द्वैधिकानीति-पेशीसम्पादनेन द्वैधीभावकरणयोग्यानि वेति नो वदेत्, दोषाः पुनरत्रात ऊर्ध्वं नाश एवामीषां न शोभनानि वा प्रकारान्तरभोगेनेत्यवधार्य गृहिप्रवृत्तावधिकरणादय इति ।।७.३२।। असंथडा इमे अंबा, बहुनिवट्टिमाफला । वइज्ज बहुसंभूया, भूयरूव त्ति वा पुणो ।।७.३३ । । २२९ (ति.) मार्गदर्शनादौ च कार्ये एवं वदेत् - असंस्तृताः फलभारं संस्तरीतुं निवोढुं न समर्थाः । इमे आम्राः-एतेन पक्वार्थ उक्तः । बहुनिवृत्तफलाः- बहु यावन्निर्वृत्तानिबद्धास्थीनि फलानि येषु ते, तथा अनेन पाकखाद्यार्थ उक्तः । वदेत् । बहुसम्भूतानि - पाकातिशयाद् ग्रहणकालोचितानि फलानि येषु ते, तथा - एतेन वेलोचितार्थ उक्तः । भूतरूप इति वा पुनः- भूतरूपाणि अबद्धा - स्थीनि - कोमलानि फलानि येषु ते, तथाअनेन टालाद्यर्थ उक्तः ।।७.३३।। (स.) प्रयोजने पुनमार्गदर्शनादावेवं वदेदित्याह - असंथडा 'इति - असमर्था एते आम्रा अतिभारेण नम्रा न शक्नुवन्ति फलानि धारयितुमित्यर्थः । आम्रग्रहणं प्रधानवृक्षाणामुपलक्षणम्, एतेन पक्वार्थ उक्तः, तथा बहूनि - निर्वर्तितानि बद्धास्थीनि फलानि येषु ते तथा, अनेन पाकखाद्यार्थ उक्तः वदेद् बहुसंभूताः, बहूनि संभूतानि रूपाणि पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथाविधाः, अनेन वेलोचितार्थ उक्तः, तथा भूतरूपा इति वा पुनर्वदेत्, भूतानि रूपाण्यबद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षित इति ।।७.३३ ।। (सु.) प्रयोजने पुनरमार्गदर्शनादौ चैवं वदेदित्याह - असंथडा...इति, असमर्था एते आम्राः = अतिभारेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, आम्रग्रहणं प्रधानवृक्षोपलक्षणं, एतेन पक्वार्थ उक्तः, तथा बहुनिर्वर्त्तित - फलाः - बहूनि निर्वर्त्तितानि
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy