SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १९३ षष्ठम् अध्ययनम् वणस्सइकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे य विविहे पाणे, चक्खुसे य अचक्खुसे ।।६.४१।। तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्डणं । वणस्सइकायसमारंभ, जावज्जीवाइ वज्जए ।।६.४२।। (ति.) उक्तो दशमस्थानविधिः, एकादशमाह-सूत्रत्रयं प्राग्वत् ।।६.४०-४२।। (स.) एवमुक्तो दशमस्थानविधिः, अथैकादशस्थानविधिः कथ्यते-वणस्सई'इतिएतद्गाथात्रयव्याख्यानमपि पूर्ववद् ज्ञेयं, नवरं वनस्पतिनाम ग्राह्यम्. ।।६.४०-४२।। (सु.) उक्तो दशमस्थानविधिः, इदानीं एकादशमाश्रित्योच्यत इति । 'वणस्सई' इत्यादि सूत्रत्रयं वनस्पत्यभिलापेन ज्ञेयं, ततश्चायमप्युक्त एव ।।६.४०-४२।। तसकायं न हिंसंति, मणसा वयस कायसा । तिविहेण करणजोएणं, संजया सुसमाहिया ।।६.४३।। तसकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे य विविहे पाणे चक्खुसे य अचक्खुसे ।।६.४४।। तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्डणं । तसकायसमारंभ, जावज्जीवाइ वज्जए ।।६.४५।। (ति.) उक्तमेकादशं द्वादशमाह-सूत्रत्रयं प्राग्वत् । त्रसकायं न हिंसन्तिआरम्भप्रवृत्त्येति ज्ञेयम् ।।६.४३-४५।। उक्तो द्वादशस्थानविधिः, प्रतिपादितं कायषट्कम् । एतत्प्रतिपादनादुक्ता मूलगुणाः । अधुनैतवृत्तिभूतोत्तरगुणावसरः । ते चाकल्पादयः षट् । तत्राकल्पो द्विविधःशिक्षकस्थापनाकल्पः, अकल्पस्थापनाकल्पश्च । तत्राद्यः । अनधीतपिण्डनियुक्त्यादिना शैक्षेण आनीतमाहारादि साधूनां न कल्पते । उक्तं च - अणहीया खलु जेणं, पिंडेसणसिज्जपाएसा । तेणाणियाणि जइणो, कप्पंति न पिंडमाईणि ।।१।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy