SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ - १९२ दशवैकालिकं-टीकात्रिकयुतम् नापि वीजयन्ति परैरात्मानं तालवृन्तादिभिरेव, नापि वीजयन्तं परमनुमन्यन्त इति ||६.३७।। जं पि वत्थं व पायं वा, कंबलं पायपुंछणं । न ते वाउमुदीरंति, जयं परिहरंति य ।।६.३८।। : (ति.) उपकरणात् तद्विराधना-इति परिहरन्नाह-यदपि वस्त्रं वा, पात्रं वा, कम्बलं पादप्रोञ्छनम्-एषां धर्मोपकरणं तेनापि। न ते वातमुदीरयन्ति-अयतं प्रत्युपेक्षणादिक्रियया । यतम् - परिहरन्ति च-परिभुञ्जते ।।६.३८ ।। (स.) अथोपकरणाद्या विराधना भवति तां परिहरन्नाह-जं पि'इति-यदपि वस्त्रं वा पात्रं वा कम्बलं वा पादप्रोञ्छनं वा, एतेषां पूर्वव्याख्यातार्थानां यद्धर्मोपकरणं, तेनापि धर्मोपकरणेन ते साधवो न वातमुदीरयन्ति, कया ? अयतनया प्रतिक्रियया, किन्तु यतं परिहरन्ति परिभोगपरिहारेण धारणपरिहारेण च. ||६.३८।। (सु.) उपकरणात् तद्विराधनेत्येत् परिहरन्नाह-जं पि'इति, यदपि वस्त्रं वा पात्रं वा कम्बलं वा पादपुञ्छनममीषां स्वरूपं पूर्वोक्तं धर्मोपकरणं यत्, तेनापि न ते वातमुदीरयन्त्यपि, अयतप्रत्युपेक्षणादिक्रियया, किंतु यतं परिहरन्ति, परिभोगपरिहारेण धारणाया परिहारेण चेति ।।६.३८ ।। तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्डणं । वाउकायसमारंभ, जावज्जीवाइ वज्जए ।।६.३९ ।। (ति.) प्राग्वत् ।।६.३९ ।। (स.) यत एवायं सुसाधुवर्जितोऽनिलसमारम्भः, ततः किं कार्यम् ? - इत्याहतम्हा इति पूर्ववत्... (सु.) यत एवायं सुसाधुर्वर्जितोऽनिलसमारम्भः, तम्हा'इति पूर्ववत् ।।६.३९ ।। वणस्सइकायं न हिंसंति, मणसा वयस कायसा | तिविहेण करणजोएणं, संजया सुसमाहिया ||६.४०।। १. अन्यत्र मुद्रिते तु वणस्सइं न हिंसंति, मणसा वयसा कायसा'इति पाठः । एवं अग्रेऽपि पाठभेदः - वणस्सइसमारंभ इत्यादि ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy