SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकं-टीकात्रिकयुतम् (ति.) एतदेव निगमयति- स्पष्टः । नवरम् । महादोषाणां चौर्यप्रवृत्यादीनां, समुच्छ्रयः-उन्नतिर्यत्र तं महादोषसमुच्छ्रयम् ।।६.१६ । । १८० (स.) अथ एतदेव निगमयति- मूलं...इति - णमिति वाक्यालङ्कारे. निर्ग्रन्थाः साधवस्तस्मात्कारणान्मैथुनसंसर्गं मैथुनसम्बन्धं योषित आलापाद्यपि वर्जयन्ति, तस्मात् कस्मात् ? यत एतत् अब्रह्मसेवनम्, अधर्मस्य पापस्य मूलं बीजमिति परलोकसम्बन्ध्यपायः, कष्टं पुनरेतन्महादोषसमुच्छ्रयं महतां दोषाणां चौर्यप्रवृत्त्यादीनां समुच्छ्रयं सङ्घातवदितीहलोकसम्बन्ध्यपायः, कष्टमित्युभयलोककष्टदातृत्वान्मैथुनवर्जनं युक्तं साधूनाम् ।।६.१६।। (सु.) एतदेव निगमयति- मूलमेयं' इति, मूलं - बीजमेतदधर्मस्य पापस्येति पारलौकिकोऽपायः । महादोष - समुच्छ्रयं महतां दोषाणां चौर्यप्रवृत्त्यादीनां समुच्छ्रयंसङ्घातवदिति ऐहिकोऽपायः । यस्मादेवं तस्मान्मैथुनसंसर्गं इति प्राकृतत्वात्, मैथुनसंसर्गंमैथुनसम्बन्धं योषिदालापाद्यपि निर्ग्रन्था वर्जयन्ति, णमिति वाक्यालङ्कार इति ।।६.१६।। बिडमुब्भेइमं लोणं, तिल्लं सप्पिं च फाणियं । न ते संनिहिमिच्छंति, नायपुत्तवओरया ।।६.१७ । । (ति.) उक्तश्चतुर्थस्थानविधिः, पञ्चममाह - बिडम्-पक्वम्, अग्नितापादिना प्रासुकम । उद्भेदिमम्-उद्भेदाज्जातम्, सामुद्रम् अप्रासुकं द्विधापि लवणम् । तैलम् । सर्पिः-घृतम् । फाणितम्-गुडम् । इत्यादि । न ते - साधवः । सन्निधिम् इच्छन्ति-कर्तुं न वाञ्छन्ति । ज्ञातपुत्रवचसि रताः ।।६.१७।। (स.) चतुर्थस्थानविधिः प्रोक्तः, अथ पञ्चमस्थानविधिमाह - बिडं... इति - साधव एतेषां सन्निधिं न कुर्वन्ति पर्युषितं, कोऽर्थः ? रात्रौ रक्षितं न स्थापयन्ति, किं विशिष्टाः साधवः ? ज्ञातपुत्रवचोरताः, ज्ञातपुत्रः श्रीवर्धमानस्वामी, तस्य वचने निस्सङ्गताप्रतिपादनतत्परे रता आसक्ताः, केषां सन्निधिं न कुर्वन्ति ? बिडं गोमूत्रादिपक्वम्, उद्भेद्यं सामुद्रादि, बिडं प्रासुकमुद्भेद्यमप्रासुकमित्येवं द्विप्रकारं लवणं, तथा तैलं, सर्पिश्च घृतं, फाणितं द्रवगुङ, एतच्च लवणाद्यप्येवं द्विप्रकारमन्यच्च रात्रौ न रक्षन्तीत्यर्थः ।।६.१७।। तान्याह (सु.) प्रतिपादितश्चतुर्थस्थानविधिः, इदानीं पञ्चमस्थानविधिमाह - विडमु... इति,
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy