SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १७९ षष्ठम् अध्ययनम् (सु.) एतदेवाह-तं'इति, तच्चित्तवदादि आत्मना न गृह्णन्ति विरतत्वात्, नापि ग्राहयन्ति परं विरतत्वादेव, तथाऽन्यं वा गृह्णन्तमपि स्वयमेव न अनुजानन्तिनानुमन्यन्ते संयता इति ||६.१४ ।। अबंभचरियं घोरं, पमायं दुरहिट्ठयं । नायरंति मुणी लोए, भेयाययणवज्जिणो ||६.१५ ।। (ति.) उक्तस्तृतीयस्थानविधिः, चतुर्थमाह-अब्रह्मचर्यम्-प्रतीतम् । घोरम्-रौद्रं दुर्गतिहेतुत्वात् । किं विशिष्टं ? प्रमादम्-विषयाणां प्रमादरूपत्वात् । दुष्टैरधिष्ठीयते यत् तद् दुरधिष्ठम्-सुसाधूनामसेव्यम् । अतो नाचरन्ति-न सेवन्ते । मुनयः । लोकेजगति, वर्तमाना इति शेषः । भेदः-चारित्रस्य भेदः, सङ्गरूपः । तस्यायतनं स्थानं अब्रह्म । ततस्तद् वर्जिनः ||६.१५ ।। (स.) तृतीयस्थानविधिरुक्तः, अथ चतुर्थस्थानविधिमाह-अबभेति-मुनयो लोके मनुष्यलोकेऽब्रह्मचर्यं प्रतीतं नाचरन्ति न सेवन्ते, किंभूतमब्रह्म ? घोरं रौद्रानुष्ठानहेतुत्वात्, पुनः किंभूतमब्रह्म ? प्रमादं प्रमादवत्. कथ ? सर्वदा प्रमादमूलत्वात्, पुनः किम्भूतमब्रह्म ? दुरधिष्ठितं दुराश्रयं दुःसेवं विदितजिनवचनेनानन्तसंसारहेतुत्वात्, यतश्चैवमत एव मुनयोऽब्रह्म न सेवन्त इत्यर्थः। किम्भूता मुनयः ? भेदायतनवर्जिनः, भेदश्चारित्रभेदस्तस्यायतनं स्थानमिदमब्रह्मचर्यमेव, उक्तन्यायात्, तद्वर्जिनश्चारित्रातिचारभीरव इत्यर्थः ।।६.१५।। (सु.) उक्तः तृतीयस्थानविधिः, चतुर्थस्थानविधिमाह-अबंभ...इति, अब्रह्मचर्य प्रतीतं, घोरं-रौद्रं रौद्रानुष्ठानहेतुत्वात्, प्रमादं-प्रमादवत् सर्वप्रमादमूलत्वात्, दुरधिष्ठितंदुराश्रयं दुस्सेवं विदितजिनवचनेनानन्तसंसारहेतुत्वात्, यतश्चैवम् ?-अतो नाचरन्तिनासेवन्ते मुनयो, लोके-मनुष्यलोके, किं विशिष्टा ? इत्याह-भेदायतनवर्जिनः-भेदःचारित्रभेदः तदायतनं-तत्स्थानमिदमेवोक्तन्यायात् तद्वर्जिनः चारित्रातिचारभीरव इति ||६.१५।। मूलमेयमहम्मस्य, महादोसमुस्सयं । तम्हा मेहुणसंसग्गं, निग्गंथा वज्जयंति णं ।।६.१६ ।। १.महादोषनुं उत्पत्तिस्थान १० टि. || ૧૩
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy