________________
१५०
दशवैकालिकं-टीकात्रिकयुतम् [ति-स्पष्टः ।।५.२.१७।। (स.) ततः किम् ? इत्याह-तमिति-अर्थलापनिका पूर्ववत्. ।।५.२.१७ ।।
(स.) ['उप्पलं... संमद्दिआ दए'।।, तथा 'तं भवे' इति] एवं तच्च संमृद्य दद्यात्, संमर्दनं नाम पूर्वच्छिन्नानामेवापरिणतानां मर्दनम्, शेषं सूत्रद्वयेऽपि तुल्यम् । आह 'एतत्पूर्वमप्युक्तमेव, "संमद्दमाणी पाणाणि, बीयाणि हरियाणि य," [५.१.२९] इति, अत्र, उच्यते-उक्तं नाम सामान्येन, विशेषाऽभिधानाददोषः ।।५.२.१७ ।।
सालुयं वा विरालियं, कुमुउप्पलनालियं । मुणालियं सासवनालियं, उच्छुखण्डं अनिव्वुडं ||५.२.१८।।
(ति.) शालूकंम्-उत्पलकन्दम् । बिरालिकाम्-पलाशकन्दरूपाम् । कुमुदोत्पलनालिके अल्पं नालं नालिका | मृणालिकाम्-मृणालं पद्मनालं, अल्पं मृणालं मृणालिकाम् । सर्षपनालिकाम्-सिद्धार्थमञ्जरीम् । इक्षुखण्डम् अनिवृतम् । इदं च पूर्वेष्वपि योज्यम ।।
(स.) पुनः किं किं वर्जयेत् ? इत्याह - सालुअं...इति-शालूकं वा उत्पलकन्दं, विरालिकां पलाशकन्दरूपां, पर्ववल्लिप्रतिपर्व-कन्दमित्यन्ये, कुमुदोत्पलनालौ प्रसिद्धौ, तथा मृणालिकां पद्मिनी-कन्दोत्यां, सर्षपनालिकां सिद्धार्थमञ्जरी, तथा इक्षुखण्डं, एतच्छालूकादिसप्तकं किंभूतं ? अनिवृतं सचित्तं, ।।१८।।
(सु.) सालुयं इति, शालूकं-उत्पलकन्दं, विरालिकां-पलाशकन्दरूपां, पर्ववल्लिप्रतिपर्ववल्लि-प्रतिपर्वकन्दमित्यन्ये । कुमुदोत्पलनालौ प्रतीतौ, तथा मृणालिकांपद्मिनीकन्दोत्थाम्, सर्षपनालिकां-सिद्धार्थकमञ्जरी, तथेक्षुखण्डम्, अनिर्वृत्तं-सचित्तं, एतच्चानिवृतग्रहणं सर्वत्राभिसम्बध्यते इति ।।५.२.१८ ।।
तरुणगं वा पवालं, रुक्खस्स तणगस्स वा । अन्नस्स वा वि हरियस्स, आमगं परिवज्जए ||५.२.१९ ।। युग्मम् (ति.) किञ्च-तरुणकम्-कठिनीभूतं पत्रम् । प्रवालं वा-पल्लवो वृक्षादेः । तृणकस्य वा-मधुरतृणादेः । अन्यस्य वा हरितस्य-आर्यकादेः । आमम्-अपरिणतम् । वर्जयेत् ।।५.२.१९।।
१.०यो. ६-१०.१२ ।। २. कुमुदोत्पलयोः १० टि. ।। ३. शस्त्र लाग्या वगरनुं १० टि. ।।