SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ पञ्चमम् अध्ययनम् १४९ (स.) परपीडाधिकारात्, पुनरिदमाह-उप्पलं'इति-उत्पलं नीलोत्पलादि, पद्मअरविन्दं, कुमुदं वा गर्दभकं वा, मगदन्तिकां मेत्तिकां, मल्लिकामित्यन्ये, तथाऽन्यद् वा पुष्पं सचित्तं शाल्मलीपुष्पादि, तच्च सल्लुञ्च्या-ऽपनीय छित्त्वा दद्यात्. ।।१४।। (सु.) परपीडाप्रतिषेधाधिकारादिदमाह-उप्पलं'इति उत्पलं-नीलोत्पलादि, पदममअरविन्दं, कुमुदं वा गर्दभकं वा मगदन्तिकां मेत्तिकां, मल्लिकामित्यन्ये, तथाऽन्यद् वा पुष्पं सचित्तं-शाल्मलीपुष्पादि, तच्च-संलुञ्च्य-अपनीय छित्त्वा दद्यादिति ।।५.२.१४ ।। तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.२.१५।। (ति.) प्राग्वत् ।।५.२.१५।। (स.) तदा किमित्याह-तं...इति ततः संयतो ददतीं प्रतीदं वदेत्-हे स्त्रि ।। तादृशं भक्तपानं संयतानामकल्पनीयं ततो मे मम न कल्पते. ।।१५।। (सु.) तारिसं, इति, तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवं अतो ददतीं प्रत्याचक्षीत-न मम कल्पते तादृशमिति ।।५.२.१५ ।। उप्पलं पउमं वा वि, कुमुयं वा मगदंतियं । अन्नं वा पुप्फसच्चित्तं, तं च सम्मदिया दए ।।५.२.१६ ।। (ति.) स्पष्टः | नवरम् । संमृज्य छिन्नानामेव अपरिणतानां मर्दनं कृत्वा । अत्राह पर:-"सम्मद्दमाणी पाणाणां" इत्यादि प्रागुक्तमेव । उच्यते-तत्र सामान्येनोक्तम् । इह तु विशेषोक्तेर्न दोषः ।।५.२.१६ ।। (स.) पुनः कीदृशं न कल्पते ? इत्याह-उप्पलं...इति उप्पलमिति-तच्चोत्पलादिकं पूर्वोक्तं संमृद्य दाता दद्यात्, तदापि संयतो न गृह्णीयात्, सम्मर्दनं नाम पूर्वच्छिन्नानामेवापरिणतानां मर्दनम्. ||१६ ।। तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.२.१७।। १. 'मूले मुद्रिते तु तं भवे 'पाठ' |
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy