________________
तन्दुलवैचारिक प्रकीर्णकम्
[ ६६
वाप्रयास विनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते क्रौंचस्वराः, नन्दि:- द्वादशतूर्य सङ्घातस्तद्वत् स्वरो येषां ते नन्दिस्वराः, नन्द्या इव घोषो - नादो येषां ते नन्दिघोषाः, सिंहस्येव प्रभूतदेशव्यापी स्वरो येषां ते सिंहस्वराः सिंहघोषाः मञ्जु :- प्रियः स्वरो येषां ते मञ्जुस्वराः मञ्जुः घोषो येषां ते मञ्जुघोषाः, एतदेव पदद्वयेन व्याचष्टे - सुस्वराः सुस्वर घोषाः, अनुलोमः - अनुकूलो वायुवेगः - शरीरान्तर्वर्त्तिवातजवो येषां ते अनुलोमवायुवेगाः, वायुगुल्मरहितोदर मध्यप्रदेशा इति भावः, कङ्कः- पक्षिविशेषः तस्येव ग्रहणिः - गुदाशयो नीरोगवर्चस्कतया येषां ते कङ्कग्रहणयः, कपोतस्येव - पतिविशेषस्य परिणाम :आहारपाको येषां ते कपोतपरिणामाः, कपोतस्य हि जठराग्निः पाषाणलवानपि जरयतीति श्रुतिः, एवं तेषामपि अत्यर्गला - हारग्रहणेऽपि न जातुचिदप्यजीर्णदोषो भवतीति, शकुनेरिव -- पक्षिण इव पुरीषोत्सर्गे निर्लेपतया 'फोर्स' ति फोसः - अपानदेश: 'फुस उत्सर्गे' फुसन्ति-- पुरीषमुत्सृजन्ति अनेनेति व्युत्पत्तेः, तथा पृष्ठ - प्रतीतं अन्तरे च--पृष्ठोदरयोरन्तराले पार्श्वावित्यर्थः ऊरू--जङ्घे चेति द्वन्द्वस्ते परिणता - विशिष्टपरिणामवन्तो येषां ते शकुनिप्फोस पृष्ठान्तरोरुपरिणताः, पद्म'-- कमलं उत्पलं -- नीलोत्पलं यद्वा पद्म -- पद्मकाभिधानं गन्धद्रव्यं उत्पलं च--उत्पलकुष्ठं तयोः गन्धेन--सौरभेण सदृशः - समो यो निःश्वासस्तेन सुरभि -- सुगन्धि वदनं -- मुखं येषां ते पद्मो