________________
६८ ]
तन्दुलवैचारिक प्रकीर्णकम्
च्छति तद् यदि द्रोणमानं भवति तदा स पुरुषो मानोपपन्न इत्युच्यते, तत्र २५६ पलप्रमाणं द्रोणमानमिति, उन्मानंतुलाऽऽरोपितस्यार्द्ध भारप्रमाणता, भारमानं यथा ।
षट्सर्षपैर्यवस्त्वेको, गुज्जैका च यवैस्त्रिभिः । गुञ्जात्रयेण वल्लः स्यात्, गद्याणे ते च षोडश ॥ १ ॥ पलञ्च दश गद्याणैस्तेषां सार्द्धशतैर्मणं । मणैर्दशभिरेका च, घटिका कथिता बुधैः ॥ २॥ टिभिर्दशभिस्ताभिरेको भारः प्रकीर्तितः" इति प्रमाणं पुनः आत्माङ्गुलेन अष्टोत्तरशताङ्गुलोच्छ्रयता, शशिवत् सौम्य आकारः कान्तं - कमनीयं प्रियं-प्रेमावहं दर्शनं च येषां ते तथा, स्वभावत एव शृङ्गारं शृङ्गाररूपं चारु- प्रधानं रूपं-वेषो येषां ते तथा, 'प्रासादीयाः' प्रसादाय - मनःप्रसत्तये हितास्तत्कारित्वात् प्रासादीयाः - मनःप्रहृत्तिकारिण इति भावः १ दर्शनीयाः - दर्शन योग्याः यान् पश्यतश्चक्षुषी न श्रमं गच्छत इत्यर्थः २ अभि- सर्वेषां द्रष्ट्ऋणां मनःप्रसादानुकूलतया अभिमुखं रूपं येषां ते अभिरूपा: अत्यन्तकमनीया इति भावः ३ अत एव प्रतिरूपाः प्रति विशिष्टं असाधारणं रूपं येषां ते प्रतिरूपाः, यद्वा प्रतिक्षणं नवं नवमिव रूपं येषां ते प्रतिरूपाः, ते मनुष्याः 'णं' वाक्यालङ्कारे ओघः प्रवाहः तद्वत स्वरो येषां ते ओघस्वराः, मेघस्येवातिदीर्घः स्वरो येषां ते मेघस्वराः, हंसस्येव मधुरः स्वरो येषां ते हंसस्वराः, क्रौंचस्ये