________________
तन्दुलवैचारिकप्रकीर्णकम् [५१ 'नंदमा०' नन्दमानः-सौख्यं भुञ्जानो धर्म जिनोक्तं चरेत्-कुर्यादित्यर्थः, किंभूतं धर्म ?-वरं-श्रेष्ठं शिवप्रापकत्वात् , कया भावनया धर्म कुर्यादित्याह-मे-मम अत्र भवे परभवे च 'लष्टतरं' अतिकल्याणं भवेदिति भावनयेति, अनन्दमाणोऽवि-अनन्दनपि सौख्यमभुञ्जानोऽपि धर्म कुर्यात् , कया भावनयेत्याह-मे-मम पापतरं मा भवतु-एकं तावदहं पापफलं भुजे पुनधर्माकरणे मा भवतु मेऽतिपापफलमिति भावनयेति ॥४७॥
किंच-'नवि जा०' नरं-पुरुषं वाशब्दाद् बालादिभेदभिन्नं नारी-स्त्रियं वाशब्दात् क्लीवं जातिः-मातृपक्षः ब्राह्मणादिका जातिर्वा कुलं-पितृपक्षः उपभोगादिकं कुलं वा विद्या वा सुशिक्षिता-सदभ्यस्ता वा नापीति-नैव तारयतिभवाब्धितीरं प्रापयति, सर्व स्वर्गापवर्गादिसौख्यं पुण्यैःसंविग्नसाधुदानादिभिर्वर्धते-प्राप्यते इत्यर्थः, अत्रान्यत्रापि वकारचकारापिशब्दाः यथायोगं पूरणसमुच्चयादिकेऽथें ज्ञातव्या इति ॥ ४८॥ ___ 'पुन्नेहिं' पुण्यैः-अन्नपानवस्त्रपीठफलकौषधादिभिः साधुदानादिभिरुपार्जितशुभफलैः हीयपानैः-क्षयं गच्छद्भिः पुरुषकार:-पुरुषाभिमानः अपिशब्दादन्यदपि यशःकिर्तिस्फीतिलक्ष्म्यादिकं हीयते-शनैः शनैः क्षयं यातीत्यर्थः, पुण्यैः वर्द्धमानैः पुरुषकारोऽपि वर्द्धते ॥ ४६॥