________________
५० ]
तन्दुल वैचारिक प्रकीर्णकम्
विंशतिवर्षको द्वितीयावस्थावर्त्ती विद्यां गृह्णातीति २, त्रिंशतुकस्य भोगा भवन्ति ३ चत्वारिंशत्कस्य विज्ञानं भवति
४ ॥ ४२ ॥
'पना ० ' पञ्चाशत्कस्य जीवस्य 'चक्खु 'ति चक्षुर्बलं हीयते ५, षष्टिकस्य बाहुबलं हीयते ६, सप्ततिकस्य भोगा हीयन्ते ७, अशीतिकस्य विज्ञानं हीयते ८ ॥ ४३ ॥
'नउ ० ' नवतिकस्य शरीरं नमति-वक्र भवतीत्यर्थः ६, वर्षशते सति जीवितं त्यजति जीवः १० । 'कित्तिउऽस्थ' अत्र - शतवर्षे जीवानां सुखभागः कीर्त्तितो निरूपितोऽस्तीति,
-
शब्दोऽप्यर्थे दुःखभागोऽपि कीर्तितोऽस्तीति यद्वा अत्र 'कित्तिओ'ति कियान् सुखभागो वर्त्तते कियान् दुःखभागो वर्त्तते ॥ ४४ ॥
अथ शतवर्षायुष्कस्य जीवस्यान्यस्यापि उपदेशं ददातीति 'जो वास० ' यो जीवो वर्षशतं जीवति प्राणान् धारयतीत्यर्थः, च पुनः सुखी भोगान् भुक्ते तस्यापि जीवस्य सेवितु - सदा कर्तुं श्रेयो-मङ्गलं धर्मो - दुर्गतिपतज्जीवाधार : जिनदेशितः - केवलिना भाषितः ॥ ४५ ॥
'किं पुण ० ' किं पुनः सप्रत्यवाये - सकष्टे आयुषि काले वा सति इति शेषः, यो नरो नित्यदुःखितः - सदा दुःखाकुलो भवेत् १, तेन दुःखितजीवेन जिनदर्शितो धर्मः सुष्ठुतरं-विशेपतः कर्त्तव्यो नन्दिषेण पूर्व भवब्राह्मणजीववदिति ॥ ४६ ॥