________________
तन्दुलवैचारिकप्रकीर्णकम्
[ ४७
'बीईयं च' द्वितीयां दशां प्राप्तो जीवो नानाक्रीडाभिः क्रीडति-क्रीडां करोतीत्यर्थः, 'से' तस्य द्वितीयाऽवस्थावर्तिनो जीवस्य कामौ च-शब्दरूपे भोगाश्च-गन्धरसस्पर्शाः कामभोगास्तेषु तीब्रा-प्रबला रतिः-मन्मथवाञ्छा नोत्पद्यते न प्रकटीभवतीत्यर्थः ॥ ३३ ॥
'तइयं च' तृतीयां दशां प्राप्तः पश्चकामगुणे-शब्दरूपरसगन्धस्पर्शलक्षणे नरो-मनुष्यः आसक्तो भवति, तथा तदा भोगान् भोक्तुं समर्थो भवति यदि 'से' तस्य जीवस्य अस्तीति-सत्तारूपतया वर्त्तते गृहे-स्वावासे 'धुवे'ति राजाधुपद्रवाभावेन निश्चला समृद्धिरिति शेषः ॥ ३४ ॥
'चउ०' चतुर्थी चलानाम्नी दशा वर्तते यां बलानाम्नी दशामाश्रितो नरः समर्थो भवति वलं-स्ववीय द्रष्टुं (दर्शयित) फलिहमल्लवत्, यदि भवेत् निरुपद्रवो-रोगादिक्लेशरहितः, अन्यथा मात्स्यिकमल्लवत् विनाशं यातीति ॥ ३५ ॥
'पंचमी उ' पञ्चमी दशां प्राप्तः आनुपूर्व्या-परिपाट्या यो नरः स समर्थो भवति अर्थ विचिन्तयितुं-द्रव्यचिन्तां कर्तुं च पुनः कुटुम्बं प्रति अभिगच्छति-कुटुबचिन्तायां प्रवर्तते इत्यर्थः ॥ ३६ ॥
'छट्ठी उ' षष्ठी हापनीनाम्नी दशा वर्तते, यां हापनी दशां नर आश्रितः 'विरजइत्ति प्रवाहेण विरक्तो भवति,