________________
कोऽपि निर्दिष्टोऽस्ति सिद्धान्ते, यतः पुष्करवरद्वीपाद्धं मानुषोत्तरपर्वतसमीपे कर्कसङ्क्रान्तो मनुष्याः प्रमाणागुलभवैः सातिरेकैरेकविंशतियोजनलक्षः व्यवस्थितं रवि पश्यन्तः प्रोच्यन्ते शास्त्रान्तरे इति, जघन्यतस्त्वत्यासन्नरजोमलादेर. ग्रहणादगुलसङ्खये यभागात् परतः स्थितं वस्तु चक्षुषो विषयः १ श्रोत्रस्य द्वादश योजनान्युत्कृष्टविषयो मेघगर्जितादौ २ घाणरसनस्पर्शनानां तूत्कृष्टं नव योजनानि ३-४-५ जघन्यतस्तु चतुर्णामप्यमुलासङ्ख्य यभागादागतं गन्धादिकं विषयः, मनसस्तु केवलज्ञानस्येव समस्तमूर्त्तामृतवस्तुविषयत्वेन क्षेत्रतो नास्ति विषयप्रमाणं मनसोऽप्राप्यकारित्वादिति, विषयप्रमाणं चात्र इन्द्रियविचारे आत्मागुलेनैव ज्ञेयमिति, तथा'अहिअद्विमिंज.' अस्थ्यस्थिमिञ्जकेशश्मश्ररोमनखतया चिनोतीति, तत्रास्थि-हड्ड अस्थिमिजा-अस्थिमध्यावयवः केशा-शिरोजाः श्मश्रुणि-कूर्चकेशाः रोमाणि-कक्षादिकेशा इति, 'से' अथ अनेनार्थेन-अनेन कारणेन हे गौतम ! हे इन्द्रभूते ! एवं-पूर्वोक्तं प्रोच्यते-प्रकर्षेण प्रतिपाद्यते जीवस्य गर्भगतस्य सतो नास्ति उच्चारो यावच्छोणितमिति ॥ पुनर्गोंतमो ज्ञातनन्दनं प्रश्नयति___जीवे णं भंते ! गभगए समाणे पहू मुहेणं कावलियं आहारं आहारित्तए ?, गोयमा ! नो इणढे समढे १। से केणढेणं भंते ! एवं वुचा ?-गोयमा !