________________
१२ ] तन्दुलवैचारिकप्रकोणकम् ___ "घारस." सा पुरुषवीर्यसंयुक्ता योनिादशैव मुहूर्तान यावदध्वस्ता भवति, तथा 'उवरिन्ति द्वादशमुहूर्त्तानन्तरं सा योनिर्विध्वंसं गच्छति प्राप्नोतीत्यर्थः, अयमाशयः-ऋत्वन्ते स्त्रीणां नरोपभोगेन द्वादशमुहूर्त्तमध्य एव गर्भभावः, तदनन्तरं वीर्यविनाशात् गर्भाभाव इति, तथा मनुष्यगर्भ जीवानांगर्भजजन्तूनां-परिसङ्ख्या-मानं लक्षपृथक्त्वमुत्कृष्टतो भवति, सिद्धान्तभाषया पृथक्त्वं द्विप्रभृतिरा नवभ्यः सङ्ख्या कथ्यते इति ॥ १२ ॥ ___ अथ कियझ्यो वर्षेभ्यः पुनरूचं गर्भ स्त्रियो न धारयन्ति पुमांश्चाबीजो भवति इति प्रसङ्गतो निरूपयितुमाह"पणप०" महिलानां-स्त्रीणां प्रायः प्रबाहेण 'पणपन्नाय'त्ति पञ्चपञ्चाशद्वर्षभ्यः परेण'ति ऊध योनिः प्रम्लायति-गर्भधारणसमर्था न भवतीत्यर्थः, भावार्थोऽयं निशीथोक्तः-यथा___ "इत्थीए जाव पणपन्ना वासा न पूरंति ताव अमिलाया जोणी-आर्तवं स्यात् गर्भ च गृह्णातीत्यर्थः 'पणपन्नवासाए पुण कस्सवि आर्तवं भवति न पुण गम्भं गिण्हइ, पणपत्राए परओ नो अत्तवं नो गभं गिण्हह" इति, तथा चोक्तं स्थानाङ्गटोकायाम्"मासि मासि रजः स्त्रीणामजस्र श्रवति व्यहम् । वत्सरात द्वादशावं, याति पञ्चाशतः क्षयम् ॥१॥