SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १४४ ] तन्दुलवैचारिक प्रकोर्णकम् भावैः-अभिप्रायविलासादिभिर्वर्णयन्ति कामोद्दीपन गुणान विस्तारयन्तीति वनिताः ६ 'काई पमत्तभावं ० 'ति काश्चित कामिन्यः प्रकर्षेण मत्तभावं - उन्मत्तभावं व्यवहरन्ति - प्रवर्त्त - यन्ति पुरुषाणां पातनार्थं 'काई' काश्रित' प्रकर्षेण जनं नम्रत्वं प्रणतं कुर्वन्ति, किंभूतं ? - सह विभ्रमेण - सविलासेन वर्त्तते यत्तत्सविभ्रमं पुरुषाणां पाशबन्धनार्थं 'काई०' 'सस सासिव्व ववहरंति'त्ति काश्चित् सशब्दं यथा स्यात्तथा व्यवहरन्ति-स्वचेष्टां दर्शयन्तीत्यर्थः क इव ? - ' सासिव्व' श्वासोच्छ्वासरोगिवत् पुरुषाणां स्नेहभावोत्पादनार्थं, 'काई ० ' काश्चित् शत्रुवत् प्रवर्त्तयन्ति मारणार्थं मर्मस्थानग्रहणेन, यद्वा स्वर्त्रादीनां भयोत्पादनार्थ रिपुवत् प्रवर्त्तयन्ति, 'रोरो इव का०' काश्चित्कामतृष्णातृषिता रोर इव - रङ्क इव रंकपुरुषाणामपि पादयोः पादान् वा प्रणमन्ति-लगन्तीत्यर्थः, 'काई ० ' काश्चिदुपनतैः नृत्यप्रकारैरुपनमन्ति सकलाङ्गादिदर्शनार्थं, 'काई ० कोउ ० ' काचित् कौतुकं - वचननयनादिभावं कृत्वा विधाय नमन्ति नराणां हास्याद्युत्पादनार्थं १० । 9 'काइ' इति पदमग्रेऽपि योज्यम् 'सुकडनिरिक्खिएहिं' ति काश्चित् सुकटाक्ष निरीक्षितैः- सुष्ठुनेत्र विकारनिरीक्षणैः बालान् पातयन्तीति शेषः, 'सविलासमहुरे हिं'ति सविला - १. काश्चित् सेविता लासं प्रणयं स्नेहं व्यवहरन्ति पुरुषाणां पाशबन्धनार्थं इत्यपि ।
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy