________________
तन्दुलनैचारिकप्रकीर्णकम् लस्य-अपवित्रमलस्य निर्धमनं खालू इति 'ता णं'ति 'ण' वाक्यालङ्कारे तत्-जघनं 'परिणंदंतित्ति परमविषयासक्ता वर्णयन्ति, कथम् ?-वकार इवार्थे, इवोत्प्रेक्षते, फुल्लं-प्रफुल्लं विकसितमित्यर्थः नीलोत्पलवनं-इन्दीवरकाननम् ॥ ८६ ॥ ___'कित्तिय.' कियन्मात्रं-कियत्प्रमाणं 'वन्नेत्ति वर्णयामि शरीरे-वपुषि, किंभृते ?-अमेध्यं प्रचुरमस्मिन्नित्यमेध्यमये-गूथात्मके इत्यर्थः, वर्चस्कसङ्घाते-परमापवित्रविष्ठासमूहे 'विरागमूले'त्ति विरुद्धो रागः विरागः मनोजराग इत्यर्थः तस्य मूलं-कारणं कामासक्तानामगारवतीरूपदर्शने चन्द्रप्रद्योतनस्येव, यद्वा विगतो-गतो रागो-मन्मथभावो यस्मात्स विरागः वैराग्यमित्यर्थः तस्य मूलं-कारणं, काष्ठश्रेष्ठेरिव (श्रेष्टिन इव) तस्मिन् विरागमूले हु यस्मादेवं तस्माद्रागो न कर्तव्यः, स्थूलभद्रवज्रस्वामिजम्बूस्वाम्यादिवत् ॥९० ॥
'किमि०' कृमिकुलशतसङ्कीर्णे 'असुइमचुक्खे'त्ति अशुचिके-अपवित्रमलव्याप्ते अचुक्षे-अशुद्धे सर्वथा पवित्रीकतु मशक्यत्वात् , अशाश्वते क्षणं क्षणं प्रति विनश्वरत्वात् , असारे--सारवर्जिते 'सेयमलपुव्वडंमिति दुर्गन्धस्वेदमलचिगचिगायमाने, एवं विधे शरीरे हे जीवाः ! यूयं निवेदंवैराग्यं व्रजत-गच्छत, विक्रमयशोनृपस्येवेति॥११॥