________________
६ ]
तन्दुलवैचारिक प्रकीर्णकम्
"होऊण व देवकया चउतीसाइ सयबाहिरा कीस ? | पागारंबुरुहाई अणण्णसरिसावि लोगम्मि ॥ १ ॥ चोत्तीसं किरणियया ते गहिया सेसया अणिययत्ति । सुत्तंमिण संगहिया जह लडीओ विसेसाओ ||२||"
,
इति, तथा ननु यत्र तीर्थकरा विहरन्ति तत्र देशे पञ्चविंशतियोजनानामादेशान्तरेण द्वादशानां मध्ये तीर्थकरातिशयात् न वैरादयोऽनर्था भवन्तीत्यत्रोक्तं तत्कथं श्रीमन्महावीरे भगवति पुरिमताले नगरे व्यवस्थित एवाभग्नसेनस्य विपाकश्रुताङ्गवर्णितो व्यतिकरः सम्पन्न इति ?, अत्रोच्यते, सर्वमिदमर्थानर्थजातं प्राणिनां स्वकृतकर्मणः सकाशादुपजायते, कर्म तु द्वेधा--सोपक्रमं निरुपक्रमं च तत्र यानि वैरादीनि सोपक्रमकर्मसम्पाद्यानि तान्येव तीर्थकराति - शयादुपशाम्यन्ति, सदोषधात् साध्यव्याधिवत् यानि तु निरुपक्रमकर्मसम्पाद्यानि तानि अवश्यं विपाकतो वेद्यानि नोपक्रमकरण विषयानि असाध्यव्याधिवत् अत एव सर्वातिशयसम्पत्समन्वितानां जिनानामप्यनुपशान्तवैरभावा गोशालकादय उपसर्गान् विहितवन्त इति । महांश्चासौ वीरवकर्मविदारणसहिष्णुर्महावीरस्तम्, 'वुच्छं' ति वच्ये - भणिष्यामि प्रकीर्णकं - श्रीवीरहस्तदीक्षितमुनिविरचितं नन्दीसूत्रोक्तग्रन्थविशेषमिदं - प्रत्यक्षं तन्दुलानां वर्षशतायुष्कपुरुषप्रति - दिनभोग्यानां सङ्ख्याविचारेणोपलक्षितं तन्दुलवैचारिकं
9
,