SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २७४ मृच्छकटिके द्वितीयः-किंणिमित्तम् । (क) प्रथम:-अले, भणिदो म्हि पिदुणा शग्गं गच्छन्तेण, जधापुत्त वीरअ, जइ तुह वज्झपालिआ होदि, मा शहशा वावादअशि वज्झम् । (ख) द्वितीयः-अले, किंणिमित्तम् । (ग) • प्रथमः-कदावि कोवि साहू अत्थं दइअ वझं मोआवेदि। कदावि लण्णो पुत्ते भोदि, तेण वद्धावेण शव्ववज्झाणं मोक्खे होदि । कदावि हत्थी बन्धं खण्डेदि, तेण शंभमेण वझे मुक्के होदि । कदावि लाअपलिवत्ते होदि, तेण शव्ववज्झाणं मोक्खे होदि । (घ) शकारः-किं किं लाअपलिवत्ते होदि । (ङ) चाण्डालः-अले, वज्झपालिआए लेक्खों कलेम्ह । (च) शकारः-अले, शिग्धं मालेघ चालुदत्ताकम् । (छ) (इत्युक्त्वा चेटं गृहीत्वैकान्ते स्थितः।) (क) किंनिमित्तम् । (ख) अरे, भणितोऽस्मि पित्रा वर्ग गच्छता, यथा-पुत्र वीरक, यदि तव वध्यपालिका भवति, मा सहसा व्यापादयसि वध्यम् । (ग) अरे, किंनिमित्तम् । (घ) कदापि कोऽपि साधुरथं दत्त्वा वध्यं मोचयति । कदापि राज्ञः पुत्रो भवति, तेन वृद्धिमहोत्सवेन सर्ववध्यानां मोक्षो भवति कदापि हस्ती बन्धं खण्डयति, तेन संभ्रमेण वध्यो मुक्तो भवति । कदापि राजपरिवर्तो भवति, तेन सर्ववध्यानां मोक्षो भवति । (ङ) किं किं राजपरिवर्तो भवति । (च) अरे, वध्यपालिकाया लेखं कुर्मः । (छ) अरे, शीघ्रं मारयत चारुदत्तम् । वीरक इति चण्डालनाम ॥ बन्धं खण्डेदि बन्धमाच्छिद्य प्रसरति ॥ चालुदत्ताकं अरे मारयितुं तव मया समर्पितः । त्वं मम कर्तव्यमित्यर्थः (2)॥ वयं चण्डालाः । .
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy