SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ दशमोऽङ्कः । २७३ भणावेध इमिणा जज्जलवंशखण्डेण शङ्खलेण तालिअ तालिअ । (क) चाण्डालः – (प्रहारमुद्यम्य ) भो चालुदत्त, भणाहि । (ख) चारुदत्तः -- ( सकरुणम् 1) प्राप्यैतद्वयसनमहार्णवप्रपातं न वासो न च मनसोऽस्ति मे विषादः । एक मां दहति जनापवादवहि वक्तव्यं यदिह मया हता प्रियेति ॥ ३३ ॥ ( शकारः पुनस्तथैव ।) चारुदत्तः- - भो भोः पौराः । ( ' मया खलु नृशंसेन' (९।३०,३८) इत्यादि पुनः पठति ।) शकार : - वावादिदा । (ग) चारुदत्तः — एवमस्तु । प्रथमचाण्डालः - अले, तव अत वज्झपालिआ । (घ) द्वितीयचाण्डालः - अले, तव । (ङ) प्रथमः- अले, लेक्ख कलेम्ह । (इति बहुविधं लेखक कृता ।) अले, जदि ममकेलिका वज्झपालिआ ता चिट्ठदु दाव मुहुत्तम् । (च) (क) अरे चाण्डालमनुष्य, न भणति चारुदत्तबटुकः । तद्भणयतानेन जर्जरवंशखण्डेण शङ्खलेन ताडयित्वा ताडयित्वा । (ख) भोश्चारुदत्त, भण । (ग) व्यापादिता । (घ) अरे, तवात्र वध्यपालिका । (ङ) अरे, तव । (च) अरे, लेखं कुर्मः । अरे, यदि मदीया वध्यपालिका, तदा तिष्ठतु तावन्मुहूर्तकम् । एतावता । एवमेवेत्यर्थः । इदानीमित्येके ॥ सङ्खलेन वध्यपटहवादनदण्डेन | तालिअ ताडयित्वा ॥ प्राप्येति ॥ ३३ ॥ वज्झपालिआ वधपर्यायः ॥ अरे, तव ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy