________________
नवमोऽङ्कः ।
२४३
वलिं देदि, सो दाणि अत्थकलवत्तस्स कारणादो इमं अकज्जं करेदि । हा जादे, एहि मे पुत्ति । (क) ( इति रोदिति ।) अधिकरणिकः – आर्यचारुदत्त किमसौ पद्भ्यां गता, उत प्रवहणेनेति ।
चारुदत्तः - ननु मम प्रत्यक्षं न गता । तन्न जाने किं पद्भ्यां गता, उत प्रवहणेनेति ।
(प्रविश्य सामर्षः ।)
वीरक:
पादप्पहारपरिभवविमाणणाबद्धगरुअवेरस्स ।
अणुसोअन्तस्स इथं कधं पि रत्ती पभादा मे ॥ २३ ॥ ता जाव अभिरणमण्डवं उवसप्पामि । (प्रवेष्टकेन 1) सुहं अज्जमि, स्साणम् । (ख)
अधिकरणिकः - अये, नगररक्षाधिकृतो वीरकः । वीरक, किमागमनप्रयोजनम् ।
वीरकः – ही, बन्धणभेअणसंभमे अज्जकं अण्णेसन्तो, ओवाडिदं पवहणं वच्चदित्ति विआरं करन्तो अण्णेसन्तो, 'अरे, तुए वि आलोइदे, मए वि आलोइदव्त्रो' त्ति भणन्तो ज्जेव चन्दणमहत्तरण पादेण ताडिदो म्हि । एदं सुणिभ अज्जमिस्सा पमाणम् । (ग)
(क) हताश, यस्तदानीं न्यासीकृतं सुवर्णभाण्डं रात्रौ चौरैरपहृतमिति तस्य कारणाच्चतुःसमुद्रसारभूतां रत्नावलीं ददाति स इदानीमर्थकल्यवर्तस्य कारणादिदमकार्य करोति । हा जाते, एहि मे पुत्रि ।
(ख) पादप्रहारपरिभवविमाननाबद्धगुरुकवैरस्य । अनुशोचत इयं कथमपि रात्रिः प्रभाता मे ॥ तद्यावदद्धिकरणमण्डपमुपसर्पामि । सुखमार्यमिश्राणाम् ।
(ग) ही, बन्धनभेदन संभ्रम आर्यकमन्वेषयन्, अपवारितं प्रवहणं व्रजतीति विचारं कुर्वन्नन्वेषयन्, ' अरे, त्वयाप्यालोकितम्, मयाप्यालोपादप्पहारेति । गाथा । पादप्रहारेण परिभव आक्रमः स एव विमानना तया बद्धगुरुकवैरस्य । अनुशोचमानस्येयं कथमपि रात्रिः प्रभातापगता मम ॥ २३ ॥