________________
मृच्छकटिके
शकुनिरपरश्चायं तावद्विरौति हि नैकशः
कथयति महाघोरं मृत्युं न चात्र विचारणा ॥ १३ ॥ सर्वथा देवताः खस्ति करिष्यन्ति ।
शोधनकः - एदु एदु अजो । इमं अधिअरणमण्डवं पविसद् अज्जो । (क)
२३८
चारुदत्तः — (प्रविश्य समन्तादवलोक्य 1 ) अहो, अधिकरणमण्ड• पस्य परा श्रीः । इह हि
चिन्तासक्तनिमग्नमन्त्रिसलिलं दूतोर्निशङ्खाकुलं पर्यन्तस्थितचारनक्रमकरं नागाश्व हिंस्राश्रयम् । नानावाशककङ्कपक्षिरचितं कायस्थसर्पास्पदं
नीतिक्षुण्णतटं च राजकरणं हिंस्त्रैः समुद्रायते ॥ १४ ॥ भवतु । (प्रविशञ्छिरोघातमभिनीय सवितर्कम् ।) अहह, इदमपरम् सव्यं मे स्पन्दते चक्षुर्विरौति वायसस्तथा ।
पन्थाः सर्पेण रुद्धोऽयं स्वस्ति चास्मासु दैवतः ॥ १५ ॥
तावत्प्रविशामि । ( इति प्रविशति ।)
अधिकरणिकः - अयमसौ चारुदत्तः । य एषः घोणोन्नतं मुखमपाङ्गविशालनेत्रं नैतद्धि भाजनमकारणदूषणानाम् । नागेषु गोषु तुरगेषु तथा नरेषु
नह्याकृतिः सुसदृशं विजहाति वृत्तम् ॥ १६ ॥
(क) एत्वेत्वार्यः । इममधिकरणमण्डपं प्रविशत्वार्यः ।
भुवि चरणस्खलनं युज्यते ॥ १३ ॥ जृम्भितो दीर्घात्मातोऽतिस्थल (?) ॥ चिन्तासक्तें[ति ।] चिन्तामार्गे निमग्ना एव मन्त्रिणः सलिलानि यत्र । दूत आह्वायको गतागतनियुक्तो वीरश्च गृहपुरुषः । नागाश्व संतारकार्थ (?) । नाना बहुप्रकाराः शब्दं कुर्वन्तो ये कङ्कपक्षिणस्तै रचितं व्याप्तम् । अशुभसूचकत्वेन तेषां समवधानमुक्तम् । अब्धिपक्षे तु व्यक्तमेव । 'पक्ष' इति पाठे तेषां पक्षाणां रचितम् । नानाक्रमणिकया निर्मितभेदो यत्रेत्यर्थः । कङ्को मांसादः पक्षिविशेषः ॥ १४ ॥ सव्यमिति ॥ १५ ॥ घोणेति ।