SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ नवमोऽङ्कः । २३७ अथवा किं विचारितेन । अधिकरणमण्डपमेव गच्छामि । भद्र शो धनक, अधिकरणस्य मार्गमादेशय । शोधनकः - एदु एदु अज्जो । (क) (इति परिक्रामतः ।) चारुदत्तः - ( सशङ्कम् ।) तत्किमपरम् । रुक्षस्वरं वाशति वायसोऽयममात्यभृत्या मुहुराह्वयन्ति । सव्यं च नेत्रं स्फुरति प्रसह्य ममानिमित्तानि हि खेदयन्ति ॥ १० ॥ शोधनकः – एदु एदु अज्जो सैरं असंभन्तम् । (ख) चारुदत्तः — (परिक्रम्याग्रतोऽवलोक्य च । ) शुष्कवृक्षस्थितो ध्वाङ्ग आदित्याभिमुखस्तथा । मयि चोदयते वामं चक्षुर्घोरम संशयम् ॥ ११ ॥ (पुनरन्यतोऽवलोक्य ।) अये, कथमयं सर्पः । मयि विनिहितदृष्टिर्भिन्ननीलाञ्जनाभः स्फुरितविततजिह्वः शुक्कदंष्ट्राचतुष्कः । अभिपतति सरोषो जिह्मिताध्मात कुक्षिर्भुजगपतिरयं मे मार्गमाक्रम्य सुप्तः ॥ १२ ॥ अपि च । इदम् स्खलति चरणं भूमौ न्यस्तं न चाईतमा मही स्फुरति नयनं वामो बाहुर्मुहुश्च विकम्पते । (क) एत्वेत्वार्थः । (ख) एत्वेत्वार्यः स्वैरमसंभ्रान्तम् । रुक्षेति । 'शास वास' शब्दे' भ्वादिरात्मनेपदी । रेहादेरात्मनेपदानित्यत्वाच्च परस्मैपदम् । ‘वरासृ शब्दे' इति तुदादिखालव्यान्तः । आत्मनेपदी (?) ॥१०॥ शुष्केति ॥ ११ ॥ मयीति ॥ १२ ॥ स्खलतीति । आर्द्रतमायां हि
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy