SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १२४ मृच्छकटिके णहजुअलणिक्खित्ततेल्लचिक्कणेहिं पादेहिं उच्चासणे उवविट्टा चिट्ठदि । (क) चेटी-अन्ज, एसा क्खु अम्हाणं अजआए अत्तिआ। (ख) विदूषकः-अहो से कवट्ठडाइणीए पोट्टवित्थारो । ता किं एवं पवेसिअ महादेवं विअ दुआरसोहा इह घरे णिम्मिदा । (ग) चेटी-हदास, मा एव्वं उवहस अम्हाणं अत्तिअम् । एसा क्खु चाउथिएण पीडीअदि । (घ) . विदर्षक:-(सपरिहासम् ।) भअवं चाउत्थिअ, एदिणा उवआरेण मं पि बम्हणं आलोएहि । (ङ) (क) कियत्तपश्चरणं कृत्वा वसन्तसेनाया भ्राता भवति । अथवा । मा तावद्यद्यप्येष उज्ज्वलः स्निग्धश्च सुगन्धश्च । तथापि श्मशानवीथ्यां जात इव चम्पकवृक्षोऽनभिगमनीयो लोकस्य ॥ भवति, एषा पुनः का पुष्पप्रावारकप्रावृतोपानद्युगलनिक्षिप्ततैलचिक्कणाभ्यां पादाभ्यामुच्चासन उपविष्टा तिष्ठति । . (ख) आर्य, एषा खल्वस्माकमाया माता । (ग) अहो अस्याः कपर्दकडाकिन्या उदरविस्तारः । तत्किमेतां प्रवेश्य महादेवमिव द्वारशोभा इह गृहे निर्मिता । (घ) हताश, मैवमुपहसास्माकं मातरम् । एषा खलु चातुर्थिकेन पीड्यते । (ङ) भगवंश्चातुर्थिक, एतेनोपकारेण मामपि ब्राह्मणमवलोकय । मेध्य इवेति पाठान्तरे इत्यर्थः । अनभिगम्योऽनभिगमनीयः । एषा पुनः का पुष्पप्रावारकप्रावृता 'पुष्पपट' इति प्रसिद्धः । उपानयुगलविक्षिप्ततैलचिक्कणाभ्यां पादाभ्यां लक्षिता । अहो अस्याः कपर्दकडाकिन्या उदरविस्तारः । 'कर' इति पाठे अशौचाभ्यवहरणप्रयुक्तकरहब्राह्मणवत् । तत्किमितीमा प्रवेश्य महादेवमिव द्वारशोभा इह गृहे निर्मिता । अन्यथा अनेन द्वारेणास्था गृहे न प्रवेशः स्यादित्याशयः ॥ एषा खल्वस्माकमत्ता चातुर्थिकेन ज्वरविशेषेण पीड्यते। तेनेशी दशेत्युक्तम् ॥ सपरिहासम् । भगवंश्चातुर्थ(र्थि)क, एतेनोपकारेण मामपि ब्राह्मणमवलोकय । शुणपीणजठरो शूण उच्छूनः, पीनो महाभोगः
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy