SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १२२ मृच्छकटिके म्हणो विअ सुत्तं पढदि पञ्जरसुओ इअं अवरा संमाणणालद्धपसरा विअ घरदासी अधिकं कुरुकुराअदि मदणसारिआ । अणेअफलरसास्सादपन्हुट्टकण्ठा कुम्भदासी विअ कूअदि परपुट्ठा । आलम्बिदा णागदन्तेसु पञ्जरपरम्पराओ । जोधीअन्ति लावआ । आलवीअन्ति कविञ्जला । पेसीअन्ति पञ्जरकवोदा । इदो तदो विविहमणिचित्तलिदो विअ असं सहरिसं णचन्तो रविकिरणसंतत्तं पक्खुक्खेवेहिं विधुवेदि विअ पासादं घरमोरो । (अन्यतोऽवलोक्य ।) इदो पण्डीकिदा विअ चन्दपादा पदगदि सिक्खन्ता विअ कामिणीणं पच्छादो परिब्भमन्ति राअहंसमिहुणा । एदे अवरे वुडमहल्लका विअ इदो तदो संचरन्ति घरसारसा । ही ही भो, पसारणों किदं गणिआए णाणापक्खिसमूहेहिं । जं सच्चं क्खु णन्दणवणं विअ मे गणिआघरं पडिभासदि । आदिसदु भोदी । (क) (क) आश्चर्य भोः, इहापि सप्तमे प्रकोष्ठे सुश्लिष्टविहङ्गवाटीसुखनिषण्णान्यन्योन्यचुम्बनपराणि सुखमनुभवन्ति पारावतमिथुनानि । दधिभक्तपूरितोदरो ब्राह्मण इव सूक्तं पठति पञ्जरशुकः । इयमपरा संमाननालब्धप्रसव गृहदासी अधिकं कुरकुरायते मदनसारिका । अनेकफलरसास्वादप्रहृष्टकण्ठा कुम्भदासीव कूजति परपुष्टा । आलम्बिता नागदन्तेषु पञ्जरपरम्पराः। सुखमनुभवन्ति पारावतमिथुनानि । दधिभक्तपूरितोदरो ब्राह्मण इव सूक्तं पठति परशुकः । ऋक्समुदायः सूक्तम् । शोभनोक्तं च यथा स्यादेवम् । इयमपरा संमान[ना]लब्धप्रसरेव गृहदासी अधिकं कुरकुरायते मदनसारिका । अनेकफलरसास्वादप्रहृष्टकण्ठा कुम्भदासीव कूजति परपुष्टा कोकिला । आलम्बिता नागदन्तेषु गृहभित्तिस्थदारुविशेषेषु । नागदन्तका इति प्रकृती कः । पञ्जरपरम्पराः । योध्यन्ते लावकाः । आलाप्यन्ते कपिजला गौरास्तित्तिरयः । प्रेष्यन्ते पञ्जरकपोताः । योद्धमित्यर्थात् । इतस्ततो विविधमणि विचित्रित इवायं सहचरि(री)सहितः [सहर्षे] नृत्यन्रविकिरणसंतप्त(प्त) पक्षोत्क्षेपैर्वीजयतीव प्रासादं गृहमयूरः । इतः पिण्डीकृताश्चन्द्र किरणा इव पदगतिं शिक्षमाणानि कामिनीनां पश्चात्प. रिभ्रमन्ति राजहंसमिथुनानि । एतेऽपरे वृद्धमहलका इव इतस्ततः परिभ्रमन्ति गृहसारसाः । प्रसारणकं दत्तं गणिकाभिर्नानापक्षिसमूहे । यत्सत्यं खल्वेतनन्दनव
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy