SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके विदूषकः - (गृहीला ।) सोत्थि । गमिस्सम् । पिअवअस्सस्स - । णिवेदेमि । (क) ९६ वधूः – अज्जमित्तेअ, मा क्खु मं लज्जावेहि । (ख) (इति नि ष्क्रान्ता ।) विदूषकः—–— (सविस्मयम् ।) अहो, से महाणुभावदा । (ग) चारुदत्तः - अये चिरयति मैत्रेयः । मा नाम वैक्लव्यादकार्य कुर्यात् । मैत्रेय, मैत्रेय । । । विदूषकः - ( उपसृत्य ) एसो म्हि । गेण्ह एदम् । (घ) (रत्ना । । वलीं दर्शयति ।) चारुदत्तः - किमेतत् । विदूषकः - भो, जं दे सरिसदारसंगहस्स फलम् । (ङ) चारुदत्तः - कथम् । ब्राह्मणी मामनुकम्पते । कष्टम् । इदानी - मस्मि दरिद्रः । आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः । अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् ॥ २७ ॥ अथवा । नाहं दरिद्रः । यस्य मम विभवानुगता भार्या सुखदुःखसुहृद्भवान् । सत्यं च न परिभ्रष्टं यद्दरिद्रेषु दुर्लभम् ॥ २८ ॥ ब्राह्मणः प्रतिग्राहितव्यः । स च न प्रतिग्राहितः ' तत्तस्य कृते प्रतीच्छेमां रत्नमालिकाम् । (क) स्वस्ति । गमिष्यामि । प्रियवयस्यस्य निवेदयामि | (ख) आर्यमैत्रेय, मा खलु मां लज्जितां कुरु । (ग) अहो, अस्या महानुभावता । (घ) एषोऽस्मि । गृहाणैताम् । (ङ) भोः, यत्ते सदृशदारसंग्रहस्य फलम् । दिगवलम्बितमुख इत्यर्थः ॥ रअणसहिं रत्नषष्टिकाभिधं व्रतम् । 'अरण्यषष्ठिका नाम ग्रीष्मव्रतम्' इत्येके ।। आत्मेति ॥ २७ ॥ विभवेति ॥ २८ ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy