________________
तृतीयोऽङ्कः ।
८९
अहं हि चतुर्वेदविदोऽप्रतिग्राहकस्य पुत्रः शर्विलको नाम ब्राह्मणो गणिकामदनिकार्थमकार्यमनुतिष्ठामि । इदानीं करोमि ब्राह्मणस्य प्रणयम् । (इति जिघृक्षति ।)
विदूषकः - भो वअस्स, सीदलो दे अग्गहत्थो । (क) शर्विलकः – धिक्प्रमादः । सलिलसंपर्काच्छीतलो मेऽप्रहस्तः । भवतु । कक्षयोर्हस्तं प्रक्षिपामि । ( नाट्येन सव्यहस्तमुष्णीकृत्य गृह्णाति ।) विदूषकः – गहिदम् । (ख)
--
शर्विलकः – अनतिक्रमणीयोऽयं ब्राह्मणप्रणयः । तद्गृहीतम् । विदूषकः- दाणिं विकिणिदपण्णो विअ वाणिओ, अहं सुहं सुविस्सम् । (ग)
शर्विलकः —– महाब्राह्मण, स्वपिहि वर्षशतम् । कष्टमेवं मदनिकागणिकार्थे ब्राह्मणकुलं तमसि पातितम् । अथवा आत्मा पातितः । धिगस्तु खलु दारिद्र्यमनिर्वेदितपौरुषम् ।
यदेतद्गर्हितं कर्म निन्दामि च करोमि च ॥ १९ ॥ तद्यावन्मदनिकाया निष्क्रयणार्थं वसन्तसेनागृहं गच्छामि । (परिक्रम्यावलोक्य च ।) अये, पदशब्द इव । मा नाम रक्षिणः । भवतु । स्तम्भीभूत्वा तिष्ठामि । अथवा ममापि नाम शर्विलकस्य रक्षिणः । योऽहं
मार्जारः क्रमणे मृगः प्रसरणे श्येनो ग्रहालुञ्चने सुप्तासुप्त मनुष्यवीर्यतुलने श्वा सर्पणे पन्नगः ।
(क) भो वयस्य, शीतल स्तेऽग्रहस्तः ।
(ख) गृहीतम् ।
(ग) इदानीं विक्रीतपण्य इव वणिकू, अहं सुखं स्वप्स्यामि । गोब्राह्मणसहिताया भङ्गं त्वं करोषि यदीदं न गृह्णासीति शपथार्थः ॥ प्रणयोSभ्यर्थना ॥ विक्कणिदपण्णो विअ विक्रीतपण्य इव ॥ धिगिति । अनिर्वेदितेति प्रकरण निश्चयो निर्वेदः, तदभावोऽनिर्वेदः ॥१९॥ पदशब्द इत्यनेन रदनिकाप्रवेशसूचनम् । मार्जार इति । ग्रहणयुक्तमालुञ्चनं महालुञ्चनम्। श्वा कुक्कुरः । माया