SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके ८८ . चार्यस्य गृहमिदम् | अथवा भवनप्रत्ययात्प्रविष्टोऽस्मि । तत्कि परमार्थदरिद्रोऽयम्, उत राजभयाच्चौरभयाद्वा भूमिष्ठं द्रव्यं धारयति । तन्ममापि नाम शर्विलकस्य भूमिष्ठं द्रव्यम् । भवतु । बीजं प्रक्षिपामि । (तथा कृत्वा ।) निक्षिप्तं बीजं न कचित्स्फारीभवति । अये, परमार्थदरिद्रोऽयम् । भवतु । गच्छामि । 2 विदूषकः - ( उत्खायते ।) भो वअस्स, संधी विअ दिज्जदि । चोरं विअ पेक्खामि । ता गेण्हदु भवं एदं सुवण्णभण्डअम् । (कं) शर्विलकः किं न खल्वयमिह मां प्रविष्टं ज्ञात्वा दरिद्रोऽस्मीत्युपहसति । तत्किं व्यापादयामि, उत लघुत्वादुत्खायते । (दृष्ट्वा । अये, जर्जरस्नानशाटीनिबद्धं दीपप्रभयोद्दीपितं सत्यमेवैतदलंकरणभाण्डम् । भवतु । गृह्णामि । अथवा न युक्तं तुल्यावस्थं कुलपुत्रजनं पीडयितुम् । तद्गच्छामि । विदूषकः - भो वअस्स, साबिदोसि गोबम्हणकामाए, जइ एवं सुवण्णभण्डअं ण गेहसि । (ख) शर्विलकः – अनतिक्रमणीया भगवती गोकाम्या ब्राह्मणकाम्या च । तद्गृह्णामि । अथवा ज्वलति प्रदीपः । अस्ति च मया प्रदीपनि • पणार्थमाग्नेयः कीटो धार्यते । तं तावत्प्रवेशयामि । तस्यायं देशकालः । एष मुक्तो मया कीटो यात्वेवास्य दीपस्योपरि मण्डलैर्विचित्रैर्विचरितुम् । एष पक्षद्वयानिलेन निर्वापितो भद्रपीठेन धिक्कृतमन्धकारम् । अथवा मयाप्यस्मद्ब्राह्मणकुलेन धिक्कृतमन्धकारम् । ~ · (क) भो वयस्य, संधिरिव दृश्यते । चौरमिव पश्यामि । तगृह्णातु भवानिदं सुवर्णभाण्डम् | (ख) भो वयस्य, शापितोऽसि गोब्राह्मणकाम्यया, यद्येतत्सुवर्णभाण्डं न गृह्णासि । कपटसुप्तस्य विषमान्तरालवत्त्वात् ॥ १८ ॥ स्फारीभवति । अभिमन्त्रितो बीजवि - शेषो धनसहितभूतले क्षिप्तो बहुलीभवतीति प्रसिद्धिः ॥ लघुत्वाच्चपलवात् ॥ गोकाम्येति । कामयतेर्लिङ् सामान्ये अचो यति (?) | पश्चात्स्त्रीत्वं विवक्षणीयम् ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy