SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ॥२४ प्रवचनमात्राख्यमध्ययनम् ॥ पूर्वस्मिन्नध्ययने परेषां चित्तविप्लुतिः केशिगौतमवद् दुरीकर्तव्या, तदूरीकरणं सम्यग्वाग्योगेन स्यात्, वाग्योगो हि अष्टप्रवचनमातृस्वरूपः, अतोऽष्टप्रवचनमातृस्वरूपं चतुर्विंशतितमेऽध्ययने कथ्यते-सूत्रम् अट्ठ पवयणमायाओ, समिई गुत्ती तहेव य। पंचेव य समिईओ, तओ गुत्ती उ आहिया ॥१॥ एता अष्टौ प्रवचनमातर आहिता-आख्याताः प्रवचने-सिद्धान्ते मातरश्चारित्रस्य जनन्यः प्रवचनमातरः, साध्वाचारजननात्परिपालनाज्जनन्यस्तीर्थकरैः कथिताः । ता अष्ट प्रवचनमातरः काः ? समितयः कति ? गुप्तयश्च कति ? तयोः समितिगुप्त्योः सङ्ख्या वदति - पञ्चैव, एव-निश्चये पादपूरणे वा, पञ्च समितयस्तिस्त्रो गुप्तयः, उभयोर्मीलनेऽष्टप्रवचनमातर उक्ताः ॥१॥ इरिया भासेसणादाणे, उच्चारे समिई इय । मणगुत्ती वयगुत्ती, कायगुत्ती य अट्ठमा ॥ २ ॥ एता पञ्च समितयः, प्रथमेर्यासमितिः, ईरणमीर्या, समितिशब्दस्य प्रत्येकमभिसम्बन्धः ईर्यायां-गमनागमने सं-सम्यक् प्रकारेण इतिरात्मचेष्टा ईर्यासमितिः, सार्धहस्तत्रयावलोकनं वा चक्षुषा कृत्वा यत्नेन चक्रमणमीर्यासमितिः १, द्वितीया भाषासमितिः, विचार्य भाषणं भाषासमितिः २, तृतीया एषणासमितिः, शुद्धस्याहारस्य ग्रहणमेषणासमितिः ३, चतुर्थी आदानसमितिर्वस्त्र-पात्रप्रमुखोपकरणानामादानं-ग्रहणम्, उपलक्षणत्वान्निक्षेपो मुञ्चनमादाननिक्षेपसमितिः ४ । पञ्चम्युच्चारादीनां व्युत्सर्जनमुच्चार-प्रश्रवणश्लेष्म-सिङ्घाण-जल्ल-पारिष्ठापनिकासमितिः ५ । तत्रोच्चारं-विष्टा, प्रश्रवणं-मूत्रं, श्लेष्ममुखजं मलं, सिङ्घाणो-नासिकामलं, जल्लो-देहमलं, एताः पञ्च समितयः । तिस्रो गुप्तयः, प्रथमा मनोगुप्तिः गोपनं गुप्तिर्मनसोऽशुभव्यापारान्निवर्तनं मनोगुप्तिः १ । अथ द्वितीया वचनगुप्तिः, वचनस्याऽशुभव्यापाराद् गोपनं वचनगुप्तिः २ । तृतीया कायगुप्तिः, कायस्याऽशुभकर्मणो गोपन-निवर्तनं कायगुप्तिः ३ । एवं पञ्चसमितीनां तिसृणां गुप्तीनां च मीलनादष्टौ प्रवचनमातरो ज्ञेयाः ॥२॥ एया उ अट्ठ समिईओ, समासेण वियाहिया । दुवालसंगं जिणक्खायं, मायं जत्थ उपवयणं ॥३॥ एतास्तु समासेन-सङ्क्षपेणाष्टौ समितयो व्याख्याताः,विस्तरत्वेन चेद्वर्ण्यते तर्हि पञ्च समितय उच्यन्ते, तिस्रो गुप्तयश्चोच्यन्ते । समासेन-सक्षेपेण चेदुच्यते, तहष्टावपि समितय
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy