SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ २३, केशिगौतमीयाख्यमध्ययनम्] [६३ एवं तु संसए छिन्ने, केसी घोरपरक्कमे । अभिवंदित्ता सिरसा, गोयमं तु महाजसं ॥८६॥ पंचमहव्वयं धम्मं, पडिवज्जइ भावओ । पुरिमस्स पच्छिमंमि, मग्गे तत्थ सुहावए ॥८७ ॥ युग्मम् ॥ केशीकुमारश्रमणो भावतः श्रद्धातः 'पुरिमस्स' इति प्रथमतीर्थकृतो मार्गे, पश्चिमे पश्चिमतीर्थकरस्य मार्गे, अर्थादादीश्वरमहावीरयोर्मार्गे, तत्र तिन्दुकोद्याने पञ्चमहाव्रतरूपं धर्मं प्रतिपद्यतेऽङ्गीकरोति । किं कृत्वा ? गौतमं शिरसा मस्तकेनाभिवन्द्य नमस्कृत्य, क्व सति ? एवममुना प्रकारेण गौतमेन संशये छिन्ने सति, कीदृशं गौतमं ? महायशसम् । कीदृशः केशीमुनिः ? घोरपराक्रमो रौदपुरुषाकारयुक्तः पूर्वं केशीकुमारश्रमणेन चत्वारि व्रतानि गृहीतान्यासन्, तदा गौतमवाक्यात्पञ्चमहाव्रतान्यङ्गीकृतानीति भावः ॥ ८७ ॥ केसीगोयमओ निच्चं, तम्मि आसि समागमो । ... सुयसीलसमुक्करिसो, महत्थऽत्थविणिच्छओ ॥ ८८ ॥ • तत्र तस्यां नगर्यां केशीगौतमयोनित्यं समागम आसीत् । तयोः पुनः श्रुतशीलसमुत्कर्षः - श्रुतज्ञानचारित्रयोः समुत्कर्षोऽतिशयोऽभूत् । पुनस्तयोरुभयोर्महानर्थविनिश्चयोऽभूत्, शिक्षाव्रततत्त्वादीनां निर्णयोऽभूत् ॥८८ ॥ तोसिया परिसा सव्वा, सम्मग्गं समुवट्ठिया। संथुया ते पसीयंतु, भगवं केसिगोयम ॥८९॥त्तिबेमि ॥ तदा सर्वा परिषत् सदेवमनुजासुरसभा तोषिता-प्रीणिता, सम्यग्मार्गे समुपस्थितासावधाना जाता । तौ भगवन्तौ-ज्ञानवन्तौ केशीगौतमौ परिषदा संस्तुतौ प्रसीदतां-प्रसन्नौ भवतां सतामिति शेषः, इत्यहं ब्रवीमि । इति सुधर्मास्वामी जम्बूस्वामिनं प्राह ॥ ८९ ॥ इति केशिगौतमीयाध्ययनं सम्पूर्णम् ॥ २३ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां केशीगौतमीयमध्ययनं त्रयोविंशतितमं सम्पूर्णम् ॥ २३ ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy