SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ [ उत्तराध्ययनसूत्रे - भाग - २ उत्तरोत्तरभेदादेकस्मिन्नात्मनि जिते चत्वारः कषायाः, तेषां मीलनात्पञ्च, पञ्चस्वात्मकषायेषु जितेष्विन्द्रियाणि पञ्च जितानि, तदा दश शत्रवो जिताः । आत्मा १ कषायाश्चत्वारः, एवं पञ्च, पुनः पञ्चेन्द्रियाणि, एवं दशैव । आत्मा, कषायाः, नोकषायाः, इन्द्रियाणि च एते सर्वे शत्रवोऽजिताः सन्ति । तान् सर्वान् शत्रून् यथान्यायं वीतरागोक्तवचसा जित्वाऽहं विहरामि । तेषां मध्ये तिष्ठन्नप्यप्रतिबद्धविहारेण विचरामि । अत्र पूर्वे हि प्रश्नकालेऽनेकेषां सहस्त्राणामरीणां मध्ये तिष्ठसीत्युक्तम्, उत्तरसमये तु कषायाणामवान्तरभेदेन षोडशसङ्ख्या भवन्ति, नोकषायाणां नवानां मीलनाच्च पञ्चविंशतिभेदा भवन्ति । तथात्मेन्द्रियाणामपि सहस्रसङ्ख्या न भवति, परन्त्वेतेषां दुर्जयत्वात् सहस्रसङ्ख्योक्तेति भावः ॥ ३८ ॥ ५४] साहु गोयम पन्ना ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मज्झं, तं मे कहसु गोयमा ॥ ३९॥ अस्य अर्थः पूर्ववत् ॥ ३९ ॥ दिसंति बहवे लोए, पासबद्धा सरीरिणों । मुक्कपासो लहुब्भूओ, कहं तं विहरसी मुणी ॥ ४० ॥ पुनः केशी वदति - हे गौतममुने ! लोके -संसारे बहवः शरीरिणः पाशबद्धा दृश्यन्ते, त्वं मुक्तपाशः सन् लघूभूतो वायुरिव कथं विहरसि ? ॥ ४० ॥ अथ गौतमः प्राह ते पासे सव्वसो छत्ता निहंतूणं उवायओ । , मुक्कपासो लहुब्भूओ, विहरामि अहं मुणी ॥ ४१ ॥ हे केशीमुने ! तान् पाशान् सर्वशः सर्वान् छित्वा, पुनस्तान् पाशानुपायतो निस्सङ्गादित्वाभ्यासान्निहत्य पश्चान्मुक्तपाशो - बन्धनरहितः सन् लघूभूतोऽहं विहरामि ॥ ४१ ॥ पासा य इइ के वुत्ते, केसी गोयममब्बवी । 'ओ केसीं बुवंतंतु, गोयमो इणमब्बवी ॥ ४२ ॥ इति गौतमवाक्यादनन्तरं केशी श्रमणो गौतममब्रवीत् - हे गौतम! पाशाः के उक्ताः ? बन्धनानि कान्युक्तानि ? तत इति पृच्छन्तं केशिकुमारमुनिं गौतम इदमुत्तरमब्रवीत् ॥४२॥ रागद्दोसाइओ तिव्वा, नेहपासा भयंकरा । ते छिंदित्तु जहानायं, विहरामि जहक्कमं ॥ ४३ ॥ १ केसि एवं बुवंतं तु - अन्यसंस्करणे ॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy