________________
[ ५३
२३,
केशिगौतमीयाख्यमध्ययनम् ]
साधने वेषो व्यवहारनये ज्ञेयः, न तु निश्चये नये वेषः, निश्चये नये तु ज्ञानदर्शनचारित्राण्येव । तत्र ज्ञानं मतिज्ञानादिकम्, दर्शनं तत्त्वरुचिः, चारित्रं सर्वसावद्यविरतिरूपम्, तस्मान्निश्चयव्यवहारनयौ ज्ञातव्यावित्यर्थः ॥ ३३ ॥
साहु गोयम पन्ना ते, छिन्नो मे संसओ इमो ।
अन्नोवि संसओ मज्झं, तं मे कहसु गोयमा ॥ ३४॥
अस्या अर्थस्तु पूर्ववत् ॥ ३४ ॥
नवरं प्रसङ्गतः शिष्याणां व्युत्पत्त्यर्थं जानन्नप्यपरमपि वस्तुतत्त्वं गौतमस्य स्तुतिद्वारेण पृच्छन्नन्योऽपि संशय इत्याद्याह
अगाण सहस्साणं, मज्झे चिट्ठसि गोयमा ।
ते य ते अभिगच्छंति, कहं ते निज्जिया तुमे ॥ ३५ ॥
केशी वदति - हे गौतम! अनेकेषां शत्रुसम्बन्धिनां सहस्राणां मध्ये त्वं तिष्ठसि ते चानेकसहस्रसङ्ख्याः शत्रवस्ते इति त्वामभिलक्षीकृत्य गच्छन्ति सन्मुखं धावन्ति, ते शत्रवस्त्वया कथं निर्जिताः ॥ ३५ ॥
अथ गौतम उत्तरं वदति
एगे जिए जिया पंच, पंचे जिए जिया दस ।
दसहा उ जिणित्ताणं, सव्वसत्तू जिणामिहं ॥ ३६ ॥
हे केशीमुने ! एकस्मिन् शत्रौ जिते पञ्च शत्रवो जिताः, पञ्चसु जितेषु दश शत्रवो जिताः, दशैव वैरिणो वशीकृताः, दशप्रकारान् शत्रून् जित्वा सर्वशत्रून् जयामि । यद्यपि
चतुर्णां कषायाणामवान्तरभेदेन षोडशसङ्ख्या भवति, नोकषायाणां नवानां मीलनात् पञ्चविंशतिभेदा भवन्ति, तथापि सहस्रसङ्ख्या न भवति परन्तु तेषां दुर्जयत्वात् सहस्रसङ्ख्या प्रोक्ता ॥ ३६ ॥
अथ केशी पृच्छति -
सत्तू य इइ के वुत्ते, केसी गोयममब्बवी । तओ केसी बुवंतं तु, गोयमो इणमब्बवी ॥ ३७ ॥
एगप्पा अजिए सत्तू, कसाया इंदियाणि य ।
जित्तु जहा नायं, विहरामि अहं मुणी ॥ ३८ ॥
मुने ! एक आत्मा चित्तं, तस्याऽभेदोपचारादात्ममनसोरेकीभावे मनसः प्रवृत्तिः
स्यात्, तस्मादेक आत्मा अजितः शत्रुर्दुर्जयो रिपुरनेकदुःखहेतुत्वात् । एवं सर्वेऽप्येते
૫