________________
३८]
[ उत्तराध्ययनसूत्रे-भाग-२ यतो हि गन्धनकुलोत्पन्नः सर्पो वान्तं विषं पश्चाद् गृह्णाति, तद्वदावाभ्यां वान्ता भोगाः पुनर्न वाञ्छनीयाः, यतो हि सर्पा द्विविधाः, अगन्धनकुलोद्भवा गन्धनकुलोद्भवाश्च । यदा हि कस्यचित्पुरुषस्य सर्पो लगति, तदा मन्त्रवादिनोऽग्नि ज्वालयित्वा मन्त्रेण सर्पानाकर्षन्ति, तत्र च गन्धनकुलोद्भवाः स्वविषं पश्चाद्गृह्णन्ति, अगन्धनकुलोद्भवास्त्वग्नौ ज्वलन्ति, न पुनर्वान्तं विषं पश्चाद् गृह्णन्ति, तस्मादावामगन्धनकुलोत्पन्नसर्पतुल्यौ भवाव इति भावः । तस्मात्त्वमिदानीं संयमे-चारित्रे निभृतो-निश्चलः सन् चर, साधुमार्गे विचरेत्यर्थः ॥ ४४ ॥
जइ तं काहिसि भावं, जा जा दिच्छसि नारीओ।
वायाविद्धोव्व हढो, अट्ठिअप्पा भविस्ससि ॥ ४५ ॥ हे मुने ! यदि त्वं भावं भोगाभिलाषं करिष्यसि, यां यां नारी द्रक्ष्यसि । अर्थाद्यां सुरूपां नारी दृष्ट्वा भोगाभिलाषं करिष्यसि, तदा त्वमस्थिरात्माऽस्थिरचित्तो भविष्यसि । क डव? वाताविद्धो हठ इव, हठो वनस्पतिविशेषः शेवालः, यथा पानीयोपरि शेवालो वातेन प्रेरितोऽस्थिरो भवति, तथा त्वमप्यतिरूपवती कामिनीं दृष्ट्वा कामाभिलाषी सन्नस्थिरचित्तो भविष्यसि ॥ ४५ ॥
गोवालो भंडपालो वा, जहा तद्दव्वणिस्सरो ।
एवं अणिस्सरो तंपि, सामण्णस्स भविस्ससि ॥४६॥ हे मुने ! तथा त्वमपि श्रामण्यस्य साधुधर्मस्यानीश्वरो भविष्यसि, भोगाभिलाषकरणेन संयमफलस्याऽभोक्ता भविष्यसि । क इव ? गोपाल इव, वाऽथवा भण्डपाल इव, गाः पालयतीति गोपाल-गोरक्षकः, उदरपूरणार्थं परकीयगोचारकः, पुनर्भाण्डानि परकीयक्रयाणकवस्तूनि भाटकादिना पालयतीति भाण्डपालकः, गोपालो गवां स्वामी न भवति, तद्रक्षणादुदरपूर्तिमात्रफलभाक् स्यात्, न तु गवां स्वामित्वफलभाक् ।तथा पुनर्भाण्डपाल: क्रयाणकाधिपेन क्रयाणकरक्षार्थं रक्षितः पुरुषः क्रयाणकानामीश्वरत्वफलभाग् न भवति, उदरपूर्तिमात्रफलभागेव भवति, ईश्वरत्वफलभाक् त्वपर एव । तथा त्वमपि श्रामण्यवेषधारकत्वेन द्रव्यधर्मपालकत्वादुदरपूर्तिफलभाग् वर्तसे, न तु भावधर्मफलस्य मोक्षस्येश्वरो भविष्यसीति भावः ॥ ४६ ॥
'कोहं माणं निगिण्हित्ता, मायं लोभं च सव्वसो। इंदियाइं वसे काउं, अप्पाणं उवसंहरे ॥४७॥ तीसे सो वयणं सुच्चा, संजयाए सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ॥४८॥युग्मम्
१ इयं गाथा अन्यसंस्करणे नास्ति ।