________________
२२, रथनेमीयमध्ययनम् ]
[ ३७
अथानन्तरं - भग्नयोगस्य रथनेमेर्दर्शनानन्तरं सा राजवरकन्या राजीमती साध्वी तदा वदति, कीदृशी सा ? नियमव्रते सुस्थिता, नियमे शौचसन्तोषस्वाध्यायतपोलक्षणे स्थिरा, तथा व्रते पञ्चमहाव्रतलक्षणे स्थिरा, पुनः सा किं कुर्वाणा ? जातिकुले च शीलं प्रति संरक्षमाणा, तत्र मातुर्वंशो जातिः, पितुर्वंश: कुलमुच्यते, तयोरुभयोरपि नैर्मल्यं विदधतीत्यर्थः ॥ ४० ॥
जइसि रूवेण वेसमणो, ललिएणं नलकूबरो ।
तहावि ते न इच्छामि, जइ सि सक्खं पुरंदरो ॥ ४१ ॥
भोरथने ! यदि त्वं रूपेण वैश्रमणो धनदोऽसि, यदि पुनर्ललितेन मनोहरलावण्यविलासेन नलकूबरो देवविशेषोऽसि, पुनर्यदि हे रथनेमे ! त्वं साक्षात्प्रत्यक्षं पुरन्दरोऽसि, इन्द्रावतारोऽसि, तथाप्यहं त्वां नेच्छामि, भोगार्थं नाभिलषामि ॥ ४१ ॥
पक्खंदे जलियं जोइं, धूमकेउं दुरासयं ।
न इच्छंति वंतयं भोत्तुं, कुले जाया अगंधणे ॥ ४२ ॥
हे स्थनेमे ! अगन्धने कुले जाता उत्पन्नाः, अर्थादगन्धकुलोत्पन्नाः सर्पा वान्तं विषं भोक्तुं, पुनः पश्चाद् गृहीतुं नेच्छन्ति न वाञ्छन्ति । ज्वलद्धूमकेतोरग्नेर्ज्योतिर्ज्वालां प्रस्कन्देदिति प्रस्कन्देयुः, प्राकृतत्वाद्बहुवचने एकवचनम् । अगन्धनजातीयाः सर्पा ज्वलदग्निज्वालां प्रविशेयुः, न तूद्गीर्णं विषं पश्चाद्गृह्णन्ति । कीदृशं धूमकेतोर्ज्योति: ? दुरासदं दुस्सहमित्यर्थः ॥ ४२ ॥
४
धिरत्थु तेजसोकामी, जो तं जीवियकारणा ।
वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥ ४३ ॥
हे अयशः कामिन् ! हैं अकीर्तिवाञ्छक ! अथवा हे अयशः ! अकीर्ते ! हे कामिन् ! त्वां धिगस्तु तव जीवितव्यं धिगित्यर्थः । यस्त्वमसंयमजीवितव्यकारणाद्वान्तं - वदनान्निः सृतमाहारं पुनरापातुं भोक्तुमिच्छसि दीक्षां गृहीत्वा भोगांस्त्यक्त्वा पुनर्भोगान् भोक्तुमिच्छसि । अतः कारणात्ते तवाऽस्मादसंयमजीवितव्यात् पण्डितमरणेन मरणं श्रेयः कल्याणकारकं भवेत्, न पुनस्तव भोगाभिलाषः श्रेयस्कर इति भावः ॥ ४३ ॥
अहं च भोगरायस्स, तं चसि अंधगवण्हिणो ।
मा कुले गंधणा होमो, संजमे निहुओ चर ॥ ४४ ॥
राजीमती वदति-हे रथनेमे ! अहं भोगराजस्योग्रसेनभूपस्य पुत्र्यस्मि, च पुनस्त्वमन्धकवृष्णेः समुद्रविजयस्य पुत्रोऽसि, तस्मादावां गन्धनौ गन्धनकुलोत्पन्नौ सर्पों माऽभूवमभवाव ।