________________
॥अथ टीकाकारस्य प्रशस्तिः ॥ गच्छे स्वच्छतरे बृहत्खरतरे जागृद्यशोभासुरे, श्रीमान् सूरिरभूज्जिनादिकुशलः प्रौढप्रतापान्वितः । यन्नाम स्मृतमात्रमेव हृदये विघ्नौघविद्रावणे, संधत्ते महिमानमत्र विततं दत्ते मनोवाञ्छितं ॥१॥ तच्छिष्यो विनयप्रभः समभवत् श्रीपाठकः पुण्यवान्, सिद्धान्तोदधितत्त्वरत्ननिकराविष्कारदेवाचलः । यद्वाक्सिन्धुरपाकरोन्मतिमतां मिथ्यामलं मानसं, श्रोत्रद्वारगता महातिसरला हृद्याऽनवद्या सदा ॥२॥ तदनु सदनं कारुण्यस्य प्रभावनिधिमहान्, विजयतिलकः ख्यातो भूमौ बभूव महामतिः । सकलविशदोपाध्यायानां शिरोमणिसन्निभः, विविधविबुधश्रेणिस्तुत्यः सदागममर्मवित् ॥ ३ ॥ तुष्टा वाचकपुङ्गवाय तपसा ध्यानेन शीलेन वा, यस्मै पार्श्वजिनाहिसेवनपरा पद्मा ददौ वाग्वरं । शिष्यान् भूरितरांश्चकार स ततः श्रीक्षेत्रशाखा ततः, शाखीव व्यरुचत्तया च मरुतां श्रीक्षेमकीर्तिर्गुरुः ॥ ४ ॥ सुशिष्यं क्षेमस्य प्रकटशमशिक्षा प्रददतं, ह्यूपाध्यायं ध्यानं हदि जिनवराणां विदधतम् । महामेघानावागमजलधिलब्धोत्तमतटं, तपोरत्नं रत्नं मुनिषु भजत भ्रान्तिरहितम् ॥ ५ ॥ तच्छिष्योऽभूभेदको दुर्नयानामाचारज्ञोऽन्वर्थनामा पृथिव्याम् सत्साधूनां पाठको द्वादशाङ्ग्यास्तेजोराजः पाठकः पापहन्ता ॥६॥तत्सद्विनेय इह वाचकमुख्य आसीद्विद्याविनोदभवनं भुवनादिकीर्तिः । श्रीहर्षकुञ्जरगणिश्च तदीयशिष्यो, वैराग्यमेव स च वाचकमुद्दधार ॥७॥लब्धिमण्डनगणिश्च ततोऽभूद्वाचको विबुधवृन्दसुवन्द्यः । हेमकान्तिविनयाङ्कितगात्रो, दुर्निवारहतमारविकारः॥८॥तच्छिष्यः परवादिवृन्दवदनप्रोद्भूतयुक्त्युच्छलत्कल्लोलोत्करचञ्चलस्य महतो दुर्वादवारानिधेः । निष्पाने विलसन्मतिर्वरयतिर्यः कुम्भजन्माकृति-लक्ष्मीकीतिरिति स्फुरद्गुणततिः श्रीमानभूत्पाठकः ॥ ९॥ श्रीमल्लक्ष्मीकीर्तिसत्पाठकस्य, द्वौ गुर्वाज्ञाकारिणौ सद्विनेयौ । तत्राप्येको वाचकः सोमहर्षः साध्वाचारासेवने लब्धहर्षः ॥१०॥ साधुः श्रीयुक् वल्लभः सज्जनानां, लक्ष्मीपूर्वो वल्लभश्च द्वितीयः । तेनाकारि प्रस्फुटा दीपिकेयं, सिद्धान्तस्य ह्युत्तराध्यायनाम्नः ॥ ११ ॥ न्यूनाधिक्यं बुद्धिमान्द्याद्यदुक्तं, तद्ज्ञैस्तद्वाग्दूषणं शोधनीयम् । भ्रान्तिधर्मो ह्यस्ति छद्मस्थसो, जात्याश्वो वा प्रस्खलत्येव गच्छन् ॥१२॥ धुर्यप्रणीतास्वतिविस्तरासु, टीकासु नो मत्सरिता ममाऽस्ति । तेजस्तु ताभ्यः समवाप्य भास्वत्, कृतात्मबोधाय सुदीपिकेयम् ॥ १३ ॥
॥ इति श्रीउत्तराध्ययनसूत्रं समाप्तं ॥