________________
३६, जीवाजीवविभक्त्याख्यमध्ययनम् ]
[२६१ मनुजा द्विविधभेदाः सन्ति, तान् भेदान् 'मे' मम कीर्तयतस्त्वं श्रृणु । मनुजामनुष्याः सम्मूर्छिमास्तथा गर्भश्रुत्क्रान्तिकाः, गर्भजा मनःसहिताः, सम्मूर्छिमा मनोरहिताश्चतुर्दशस्थानेषूत्पन्नाः ॥ १९७ ॥
गब्भवतंतिया जे उ, तिविहा ते वियाहिया।
अकम्मकम्मभूमा य, अंतरद्दीवगा तहा ॥१९८ ॥ ये तु गर्भव्युत्क्रान्तिकास्ते मनुष्यास्त्रिविधा व्याख्याताः। ते के ? अकर्मकर्मभूमिगा अन्तरद्वीपकाश्चः, अकर्मभूमौ भवा अकर्मभौमा-अकर्मभूम्युत्पन्नाः, कर्मभूमौ भवाः कर्मभौमाः-कर्मभूम्युत्पन्नाः, तथान्तरद्वीपगाः ॥ १९८ ॥
पन्नरस तीसइविहा, भेया अट्ठावीसई ।
संखा उकमसो तेसिं, इइ एसा वियाहिया ॥१९९ ॥ इत्यमुना प्रकारेणैतेषां पूर्वोक्तानां कर्मभूम्यकर्मभूम्यन्तरद्वीपानां सङ्ख्या क्रमशोऽनुक्रमेण व्याख्याता।सा का सङ्ख्येत्युच्यते-विधशब्दस्योभयत्र सम्बन्धो ज्ञेयः । पञ्चदशविधाः कर्मभूमिजाः, भरतैरावतमहाविदेहानां प्रत्येकं पञ्चपञ्चसङ्ख्याकत्वात् पञ्चदशसङ्ख्यात्वं भवति ।
त्रिंशद्विधा अकर्मभौमाः, अत्र हैमवतहरिवर्षरम्यक्हैरण्यवतदेवकुरूत्तरकुरुरूपाणां षण्णामप्यकर्मभूमीनां प्रत्येकं पञ्चसङ्ख्यागुणितानां त्रिंशत्सङ्ख्यात्वं सम्भवति । इह च क्रमश इत्युक्तेऽपि गणनावसरे क्रमभङ्गो विहितः, पूर्वमकर्मभूमिसङ्ख्या विहाय कर्मभूमिसङ्ख्या प्रतिपादिता, तत्तु कर्मभूमिजानां मनुष्याणां मुक्तिसाधकत्वेन प्राधान्यख्यापनात्पूर्वकथनं न दोषायेति ।
तथान्तरद्वीपानामष्टाविंशतिभेदाः, ते चान्तरद्वीपाः क्षुल्लहिमवति पर्वते पूर्वस्यां दिश्यपरस्यां दिशि च जम्बूद्वीपवेदिकान्तात्परतः प्रत्येकं द्वे द्वे दंष्ट्रे विदिगभिमुखे विनिर्गते स्तः । तद्यथा-पूर्वस्यामेकैशान्यभिमुखी दंष्ट्रा, द्वितीयाग्नेय्यभिमुखी, पश्चिमायामेका नैऋत्याभिमुखी, द्वितीया वायव्याभिमुखी, एवं चतसृषु विदिक्ष्वभिमुखीषु दंष्ट्रासु प्रत्येक त्रीणि त्रीणि योजनशतानि लवणसमुद्रमतिक्रम्य विदिक्ष्वेकैकभावेन चत्वारोऽन्तरद्वीपा: प्रत्येकं योजनशतत्रयविस्ताराः सन्ति । ततस्तत्परतस्तास्वेव चतसृषु दंष्ट्रासु प्रत्येकमेकैकशतयोजनवृद्ध्या वर्धिताः षट् षट् अन्तरद्वीपाः सन्ति । ते च द्वीपाश्चतुर्भिर्गुणिताश्चतुर्विंशतिसङ्ख्याका भवन्ति । ततश्चाद्यान्तरद्वीपचतुष्कसहिता अष्टाविंशतिरन्तरद्विपाः सन्ति । एवं शिखरिणि पर्वतेऽष्टाविंशतिर्जेयाः । सर्वसाम्याच्चैषां भेदेनाऽविवक्षितत्वात्सूत्रेऽष्टाविंशतिसङ्ख्याकथनं विरोधाय न भवति ।
तेष्वन्तरद्वीपेषु युगलर्मिका वसन्ति, तच्छरीरमानादि कथ्यते–अष्टधनुःशतोच्छायाः,