SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४४] [उत्तराध्ययनसूत्रे-भाग-२ हे भदन्त ! जिह्वेन्द्रियनिग्रहेण जीवः किं जनयति ? गुरुराह-हे शिष्य ! जिह्वेन्द्रियनिग्रहेण जीवो मनोज्ञाऽमनोज्ञेषु रसेषु रागद्वेषनिग्रहं जनयति, ततश्च तत्प्रत्ययिकं रागद्वेषनैमित्तिकं कर्म न बध्नाति । पूर्वबद्धं रागद्वेषोपार्जितं कर्म निर्जरयति - क्षपयति ॥६५॥ फासिंदियनिग्गहेणं भंते जीवे किं जणयइ ? फासिंदियनिग्गहेणं मणुन्नामणुन्नेसु फासेसु रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुव्वबद्धं च निज्जरेइ ॥६६॥ __ हे भगवन् ! स्पर्शेन्द्रियनिग्रहेण जीवः किं जनयति ? तदा गुरुराह-हे शिष्य ! स्पर्शेन्द्रियनिग्रहेण जीवो मनोज्ञामनोज्ञेषु स्पर्शेषु रागद्वेषनिगृहं जनयति, ततश्च तत्प्रत्ययिकं कर्म न बध्नाति, पूर्वबद्धं च निर्जरयति ॥६६॥ इन्द्रियनिग्रहकर्ता कषायविजयी स्यात्, अतः कषायविजयफलं प्रश्नपूर्वकमाह कोहविजएणं भंते जीवे किं जणयइ ? कोहविजएणं खंति जणयइ कोहवेयणिज्जं कम्मं न बंधइ, पुव्वबद्धं च निज्जरेइ ॥६७ ॥ हे भगवन् ! क्रोधविजयेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! क्रोधविजयेन जीवः क्षान्ति जनयति, क्रोधविजयी क्षान्तिमान् भवतीत्यर्थः । पुनः क्रोधवेदनीयं कर्म न बध्नाति । क्रोधोदयेन वेद्यते इति क्रोधवेदनीयं, क्रोधहेतुभूतं पुद्गलरूपं मोहनीयकर्मणो भेदं न बध्नाति, पूर्वबद्धं च कर्म निर्जरयति ॥६७॥ माणविजएणं भंते जीवे किं जणयइ ? माणविजएणं मद्दवं जणयइ, माणवेयणिज्जं कम्मं न बंधइ, पुव्वबद्धं च निज्जरेइ ॥६८॥ हे भगवन् ! मानविजयेन जीवः किं फलं जनयति ? गुरुराह-हे शिष्य ! मानविजयेन जीवो मार्दवं-सुकुमालत्वं जनयति । मानविजयान्नमनशीलो भवतीति भावः । पुनर्मानेन मानोदयेन वेद्यते इति मानवेदनीयं कर्म न बध्नाति, पूर्वबद्धं च कर्म निर्जरयति ॥६८ ॥ - मायाविजएणं भंते किं जणयइ ? मायाविजएणं उज्जुभावं जणयइ, मायावेयणिज्जं कम्मं न बंधइ, पुव्वबद्धं च निज्जरेइ ॥६९॥ हे भगवन् ! मायाविजयेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! मायाविजयेन जीव ऋजुभावं - सरलत्वमुत्पादयति, ततश्च मायावेदनीयं कर्म न बध्नाति, पूर्वबद्धं च कर्म निर्जरयति-क्षपयति ॥ ६९ ॥ लोहविजएणं भंते जीवे किं जणयइ ? लोहविजएणं संतोषिभावं जणयइ, लोहवयेणिज्जं कम्मं न बंधइ, पुव्वबद्धं च कम्मं निज्जरेइ ॥७०॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy