________________
२९, सम्यक्त्वपराक्रमाख्यमध्ययनम् ]
[१४३ सत्तार्थवाचकश्चतुर्दशगुणस्थानं भजते । ततः पश्चात्सिद्धयति, सकलकर्माणि क्षपयित्वा सिद्धि प्राप्नोति, बुद्ध्यति तत्त्वज्ञो भवति, मुच्यते कर्मभ्यो मुक्तो भवति, परिनिर्वाति कषायाग्नेरुपशमाच्छीतलो भवति, सर्वदुःखानामन्तं करोति ॥६१ ॥
अथ चारित्रे सति पञ्चेन्द्रियनिग्रहो युज्यते, अतस्तत्फलं प्रश्नपूर्वमाह
सोइंदियनिग्गहेणं भंते जीवे किं जणयइ ? सोइंदियनिग्गहेणं मणुन्नामणुन्नेसु सद्देसु रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुव्वबद्धं च निज्जरइ ॥६२॥
हे भदन्त ! हे स्वामिन् ! श्रोत्रेन्दियनिग्रहेण-कर्णेन्द्रियविजयेन जीवः किं जनयति ? तदा गुरुराह-हे शिष्य ! श्रोत्रेन्द्रियनिग्रहेण मनोज्ञामनोज्ञेषु शब्देषु रागद्वेषनिग्रहं जनयति। पुना रागद्वेषाऽभावे सति तत्प्रत्ययिकं कर्म न बध्नाति । तौ रागद्वेषावेव प्रत्ययो-निमित्तं यस्य तत्तत्प्रत्ययं, तत्प्रत्यये भवं तत्प्रत्ययिकम् । रागद्वेषाभावे रागद्वेषनैमित्तिकं कर्म न बध्नाति । पूर्वबद्धं रागद्वेषोपार्जितं कर्म निर्जरयति - क्षपयति ॥६२ ॥
चक्खिदियनिग्गहेणं भंते जीवे किं जणयइ ? चक्खिदियनिग्गहेणं मणुन्नामणुन्नेसु रूवेसु रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुव्वबद्धं च निज्जरेइ ॥६३ ॥
__ हे भदन्त ! हे स्वामिन् ! चक्षुरिन्द्रियनिग्रहेण जीव: किं जनयति ! तदा गुरुराह-हे शिष्य ! चक्षुरिन्द्रियनिग्रहेण मनोज्ञामनोज्ञेषु रूपेषु रागद्वेषनिग्रहं - रागद्वेषजयं जनयति । ततश्च तत्प्रत्ययिकं रागद्वेषोत्पन्नं कर्म न बध्नाति । पूर्वबद्धं रागद्वेषोपार्जितं कर्म निर्जरयतिक्षपयति ॥६३॥
घाणिदियनिग्गहेणं भंते जीवे किं जणयइ ? घाणिदियनिग्गहेणं मणुन्नामणुन्नेसु गंधेसु रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुव्वबद्धं च निज्जरेइ ॥६४ ॥
हे भदन्त ! हे स्वामिन् ! घ्राणेन्द्रियनिग्रहेण जीवः किं जनयति ? गुरुर्वदति-हे शिष्य ! घ्राणेन्द्रियनिग्रहेण मनोज्ञामनोज्ञेषु गन्धेषु रागद्वेषनिग्रहं जनयति । ततो रागद्वेषजयात्तत्प्रत्ययिकं रागद्वेषोत्पन्नं कर्म न बध्नाति, पूर्वोपार्जितं कर्म निर्जरयति ॥६४ ॥
जिब्भेदियनिग्गहेणं भंते जीवे किं जणयइ ? जिब्भेन्दियनिग्गहेणं मणुन्नामणुन्नेसु रसेसु रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुव्वबद्धं च निज्जरेइ ॥६५॥