SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ २८, मोक्षमार्गीयाख्यमध्ययनम्] [१०९ पटो घटाद्भिन्नः, इति प्रतीतिहेतुः । सङ्ख्या, एको द्वौ बहव इत्यादिप्रतीतिहेतुः । च पुनः संस्थानमेव, वस्तूनां संस्थानमाकारश्चतुरस्रवर्तुलतिस्रादिप्रतीतिहेतुः । च पुनः संयोगाः, अयमगुल्याः संयोग इत्यादिव्यपदेशहेतवः । विभागा: अयमतो विभक्त इति बुद्धिहेतवः । एतत्पर्यायाणां लक्षणं ज्ञेयम् ।संयोगा विभागा इति बहुवचनानवपुराणत्वाद्यवस्था ज्ञेयाः । लक्षणं त्वसाधारणरूपम्, गुणानां लक्षणं रूपादि प्रतीतत्वान्नोक्तम्, ॥१३॥ अथ दर्शनलक्षणमाह नवतत्त्वद्वारेण जीवाजीवा य बंधो य, पुन्नं पावासवो तहा । संवरो निज्जरा मुक्खो , संति ए तहिया नव ॥१४॥ जीवाश्चेतनालक्षणाः, अजीवा धर्माधर्माकाशकालपुद्गलरूपाः, बन्धोजीवकर्मणोः संश्लेषः, पुण्यं शुभप्रकृतिरूपं, पापमशुभं मिथ्यात्वादि, आश्रवः कर्मबन्धहेतुर्हिसामृषाऽदत्तमैथुनपरिग्रहरूपः, तथा संवरः समितिगुप्त्यादिभिराश्रवद्वारनिरोधः, निर्जरा तपसा पूर्वाजितानां कर्मणां परिशाटनम्, मोक्षः सकलकर्मक्षयादात्मस्वरूपेणात्मनोऽवस्थानम् । एते नवसङ्ख्याकास्तथ्या अवितथा भावाः सन्तीति सम्बन्धः । नवसङ्ख्यात्वं ह्येतेषां भावानां मध्यमापेक्षम् ।जघन्यतो हि जीवाजीवयोरेव बन्धादीनामन्तर्भावाद् द्वयोरेव सङ्ख्यास्ति । उत्कृष्टतस्तु तेषामुत्तरोत्तरभेदविवक्षयाऽनन्तत्वं स्यात् ॥ १४ ॥ तहियाणं तु भावाणं, सब्भावे उवएसणं । __ भावेण सद्दहंतस्स, सम्मत्तं तं वियाहियं ॥ १५ ॥ अर्हद्भिस्तस्य पुरुषस्य सम्यक्त्वं सम्यग्भावोऽर्थाद्दर्शनं व्याख्यातं कथितमित्यर्थः । कीदृशस्य पुरुषस्य ? तथ्यानां सत्यानां भावानां जीवाजीवादितत्त्वानां सद्भावे-सद्भावविषये उपदेशेन-गुरूणां शिक्षावाक्येन भावेन शुद्धमनसा श्रद्दधानस्य, तथेत्यङ्गीकुर्वाणस्य, यो हि जीवादिपदार्थान् सम्यग्जानाति, भावेन च श्रद्दधाति, स पुमान् सम्यक्त्ववानित्यर्थः ॥१५॥ अथ सम्यक्त्वभेदानाहनिस्सग्गु १ वएसरुई २, आणारुइ ३ सुत्त ४ बीयरुइमेव । अभिगम ६ विच्छाररुई ७, किरिया ८ संखेव ९ धम्मरुई १० ॥१६॥ - एते दश भेदाः सम्यक्त्वस्य ज्ञेयाः । तत्र प्रथमो निसर्गरुचिः, निसर्गः स्वभावस्तेन रुचिस्तत्त्वानामभिलाषो यस्य स निसर्गरुचिर्विज्ञेयः १ । द्वितीय उपदेशरुचिः, उपदेशेन गुरुक्तेन रुचिर्यस्य स उपदेशरुचिः, यदा गुरुर्धर्ममुपदिशति, तदैकाग्रचित्तो यः श्रृणोति स उपदेशरुचिद्वितीयो ज्ञेयः २ ।तृतीय आज्ञया सर्वज्ञवचनेन रुचिर्यस्य स आज्ञारुचिर्विज्ञेयः ३ । सूत्रेणागमेनैव रुचिर्यस्य स सूत्ररुचिश्चतुर्थो ज्ञेयः ४ । पञ्चमो बीजरूचिः, बीजेन
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy