SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०८] [ उत्तराध्ययनसूत्रे-भाग-२ वत्तणालक्खणो कालो, जीवो उवओगलक्खणो । नाणेणं दंसणेणं च, सुहेण य दुहेण य ॥१०॥ वर्ततेऽनवच्छिन्नत्वेन निरन्तरं भवतीति वर्तना, सा वर्तनैव लक्षणं-लिङ्गं यस्येति वर्तनालक्षणः काल उच्यते । तथोपयोगो मतिज्ञानादिकः, स एव लक्षणं यस्य स उपयोगलक्षणो जीव उच्यते । यतो हि ज्ञानादिभिरेव जीवो लक्ष्यते, उक्तलक्षणत्वात् । पुनर्विशेषलक्षणमाह-ज्ञानेन विशेषावबोधेन, च पुनदर्शनेन सामान्यावबोधरूपेण, च पुनः सुखेन, च पुनर्दुःखेन च ज्ञायते स जीव उच्यते ॥१०॥ पुनर्लक्षणान्तरमाह नाणं च दंसणं चेव, चरित्तं च तवो तहा । वीरियं उवओगो य, एयं जीवस्स लक्खणं ॥११॥ ज्ञानं, ज्ञायतेऽनेनेति ज्ञानम्, च पुनदृश्यतेऽनेनेति दर्शनं, च पुनश्चारित्रं क्रियाचेष्टादिकं, तथा तपो द्वादशविधं, तथा वीर्यं वीर्यान्तिरायक्षयोपशमादुत्पन्नं सामर्थ्य , पुनरुपयोगो ज्ञानादिष्वेकाग्रत्वं, एतत्सर्वं जीवस्य लक्षणम् ॥ ११ ॥ अथ पुद्गलानां लक्षणमाह सबंधयारउज्जोओ, पहा छायातवेइ वा। वन्नगंधरसा फासा, पुग्गलाणं तु लक्खणं ॥१२॥ शब्दो ध्वनिरूपपौद्गलिकः, तथान्धकारं, तदपि पुद्गलरूपं, तथोद्योतो रत्नादीनां प्रकाशः, तथा प्रभा चन्द्रादीनां प्रकाशः, तथा छाया वृक्षादीनां छाया शैत्यगुणा, तथाऽऽतपो रवेरुष्णप्रकाशः, इति पुद्गलस्वरूपम् । तु शब्दः समुच्चये । वर्णगन्धरसस्पर्शाः पुद्गलानां लक्षणं ज्ञेयम् । वर्णाः शुक्लपीतहरितरक्तकृष्णादयः, गन्धो दुर्गन्धसुगन्धात्मको गुणः । रसाः षट् तिक्तकटुककषायाम्लमधुरलवणाद्याः, स्पर्शाः शीतोष्णखरमृदुस्निग्धरूक्षलघुगुर्वादयः । एते सर्वेऽपि पुद्गलास्तिकायस्कन्धलक्षणवाच्या ज्ञेया इत्यर्थः । एभिलक्षणैरेव पुद्गला लक्ष्यन्ते इति भावः ॥१२॥ अथ पर्यायलक्षणमाह एगत्तं च पुहत्तं च, संखा संठाणमेव य । संजोगा य विभागा य, पज्जवाणं तु लक्खणं ॥१३॥ एतत्पर्यायाणां लक्षणम्, एतत्किं ? एकत्वं भिन्नेष्वपि परमाण्वादिषु यदेकोऽयमिति बुद्ध्या घटोऽयमिति प्रतीतिहेतुः । च पुनः पृथक्त्वम्, अयमस्मात्पृथग्, घटः पटाद्भिन्नः,
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy