SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ daadimiddddd श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaaa१२७) वियोगान्मोक्षसद्भावं प्रतिपादयन्तस्तेऽप्यात्मनो बन्धं मोक्षं च स्ववाचा प्रतिपादयन्ति, ततश्च बन्धमोक्षसद्भावे सति स्वकीयया गिरा सक्रियत्वे गृहीते सत्यात्मनः सम्मिश्रीभावं व्रजन्ति, यतो न क्रियामन्तरेण बन्धमौक्षौ घटेते । तदेवं सर्वेऽपि इमेऽक्रियावादिन: स्ववाचैव सम्मिश्रीभावं व्यत्ययं च प्रतिपद्यन्ते । यदिवा-बौद्धादिः कश्चित् स्याद्वादिना सम्यग्धेतुदृष्टान्तैः गृहीते निगृहीते सति सम्यगुत्तरं दातुमसमर्थो यत्किञ्चनभाषितया स 'मुम्मुई होई' जि गद्गदभाषितयाऽव्यक्तभाषी भवति, यदिवा प्राकृतशैल्या छान्दसत्वाच्च-मूकादपि मूको मूकमको भवति । एतदेव दर्शयति-स्याद्वादिनोक्तं साधनम् अननुवदितुं शीलमस्येति अननुवादी, सद्धेतुभिर्व्याकुलितमतितया मौनमेव प्रतिपद्यत इति भावः । यदिवा अननुभाष्य च प्रतिपक्षसाधनं तथाऽदूषयित्वा च, स्वपक्षं प्रतिपादयन्ति, तद्यथा-इदम् अस्मदभ्युपगतं दर्शनम् एक: पक्षोऽस्येति एकपक्षम् अप्रतिपक्षतयैकान्तिकम् अविरुद्धार्थाभिधायितया निष्प्रतिबाधं पूर्वापराविरुद्धमित्यर्थः । इदं चैवंभूतमपि सत्किमित्याह-द्वौ पक्षावस्येति द्विपक्षं सत्प्रतिपक्षमनैकान्तिकं पूर्वापरविरुद्धार्थाभिधायितया विरोधिवचनमित्यर्थः । यदिवाऽस्मदीयं दर्शनं द्विपक्षं कर्मबन्धनिर्जरणं प्रति पक्षद्वयसमाश्रयणात्, तत्समाश्रयणं चेहामुत्र च वेदनां चौरपारदारिकादीनामिव ते हि करणचरणनासिकादिच्छेदादिकामिहैवानुभवन्ति अमुत्र च नरकादौ । तथेदम् एकपक्षम् इहैव जन्मनि वैद्यत्वात्, तच्चेदम्-अविज्ञोपचितं परिज्ञोपचितमीर्यापथं स्वप्नांतिकं चेति । तदेवं स्याद्वादिनाऽभियुक्ताः स्वदर्शनमेवानन्तरोक्तया नीत्या प्रतिपादयन्ति, तथा स्याद्वादिसाधनोक्तौ छलायतनं छलं नवकम्बलो देवदत्त इत्यादिकम् आहुः उक्तवन्तः, चशब्दाच्च दूषणाभासादिकम् । तथा कर्म च एकपक्षद्विपक्षादिकं प्रतिपादितवन्त इति । यदिवा षडायतनानि उपादानकारणानि आश्रवद्वाराणि श्रोत्रेन्द्रियादीनि यस्य कर्मणस्तत् षडायतनं कर्म इत्येवमाहुरिति ।।५।। साम्प्रतमेतद्रूषणायाहते एवमक्खंति अबुज्झमाणा, विरूवरूवाणि अकिरिवाई। ज मायइ दित्ता बहवो मणूसा, भमंति संसारमणोवतग्गं ||६|| ___ तेऽक्रियावादिनः अबुध्यमाना विरूपरूपाणि नानाप्रकाराणि शास्त्राणि एवं आचक्षते, तथाहि-पृथिव्यापस्तेजोवायुरित्येतान्येव चत्वारि भूतानि, नापर: कश्चित् सुखदु:खभागात्मा विद्यते । तथा-सर्व क्षणिकं निरात्मकं, “मुक्तिस्तु शून्यदृष्टेस्तदर्थाः शेषभावना'' इत्यादि यानि आदाय बहवो मनुष्यः संसारम् अनवदग्रम् अपर्यावसानं भ्रमन्ति, तथाहि-लोकायतिकानां सर्वशून्यत्वे प्रतिपाद्ये न प्रमाणमस्ति, तथा चोक्तम्-तत्त्वान्युपप्लुतानीति, युक्त्यभावे न सिध्यति । साऽस्ति चेत्सैव नस्तत्त्वं, तत्सिद्धौ सर्वमस्तु सत् ।।१।। न च प्रत्यक्षमेवैकं प्रमाणम्, अतीतानागतभावतया पितृनिबन्धस्यापि व्यवहारस्याऽसिद्धेः, तत: सर्वव्यवहारोच्छेदः स्यादिति । बौद्धानामप्यत्यन्तक्षणिकत्वेन वस्तुत्वाभाव: प्रसजति, तथाहि-यदेवार्थक्रियाकारि तदेव परमार्थतः, सत्, न च क्षणः क्रमेणार्थक्रियां करोति, क्षणिकत्वहाने: नापि यौगपद्येन, एकऽस्मिन्नेव क्षणे
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy