________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
S
१-२६|
एत इत्याह-ये इमेजना इव प्राकृतपुरुषा इव जना: वैनयिकाः अनेके द्वात्रिंशद्भेदभिन्नाः, ते च केनचिद्धर्मार्थिना पृष्टा: अपिशब्दात् अपृष्टा वा भाव-विनयादेवं स्वर्गमोक्षावप्तिरित्येवं स्वाभिप्रायं व्यनैषुः विनीतवन्तः प्रतिपादितवन्तः, नाम शब्दः संभावनायां, संभाव्यत एव विनयात् सर्वकार्यसिद्धिरिति ।।३।। किञ्चान्यत्
अणोवसंखा इति ते उदाहु, अड्डे स ओभासति अम्ह एवं । लवावसंकी य अणागतेहिं णो किरियमाहंसु अकिरियआया ||४||
"
उप=सामीप्येन संख्या=परिच्छेदः ज्ञानमित्यर्थः उपसंख्या नोपसंख्या अनुपसंख्या तया अनुपसंख्यया=अपरिज्ञानेन वैनयिका: उदाहुः प्रतिपादयन्ति इति = एवं एष - स्वः अर्थः स्वर्गमोक्षादिकः अस्माकम् अवभासते = युज्यमानको भवति । साम्प्रतमक्रियावादिदर्शनं निराचिकीर्षुः पश्चार्धमाह-लवं-कर्म तस्मादपशङ्कितुम्-अपसर्तुं शीलं येषां ते लवापशङ्किनः लोकायतिकाः शाक्यादयश्च तेषामात्मैव नास्ति कुतस्तत्क्रिया तज्जनितो वा कर्मबन्ध इति । बौद्धाभ्युपगमे च अनागतै : क्षणैः चशब्दादतीतैश्च क्षणैः वर्तमानक्षणस्याऽसंगतेर्न क्रिया नापि च तज्जनित: कर्मबन्ध इति । तथा-अक्रिय आत्मा येषां सर्वव्यापितया तेऽप्यक्रियावादिन: सांख्याः एतदेवं ते अक्रियावादिनः=लोकायतिकबौद्धसांख्या अपरिज्ञानेनैव न क्रियामाहुः, एवं ते सर्वे एतदुक्तवन्तः, तद्यथा-अस्माकमेवाऽभ्युपगमेऽर्थो युज्यमानो भवतीति श्लोकपूर्वार्ध: काकाक्षिगोलकन्यायेनाऽक्रियावादिमतेऽपि आयोज्यमिति ।।४।। साम्प्रतमक्रियावादिनामज्ञानविजृम्भितं
दर्शयितुमाह
सम्मिस्सभावं सगिरा गिहीते, से मुम्मई होति अणाणुवादी । इमं दुपक्खं इममेगपक्खं, आहंसु छलायतणं च कम्मं ॥५॥
स्वकीयया गिरा=वाचा गृहीते अभ्युपगतेऽर्थे नान्तरीयकतया वा समागते सति तस्याऽऽयातस्यार्थस्य स्ववाचैव प्रतिषेधं कुर्वाणाः सम्मिश्रीभावम् अस्तित्वनास्तित्वाभ्युपगमं ते लोकायतिकादयः कुर्वन्ति, चशब्दात् व्यत्ययं कुर्वन्ति, तद्यथा-प्रतिषेधे प्रतिपाद्येडस्तित्वमेव प्रतिपादयन्ति, तथाहि लोकायतिकास्तावत् स्वशिष्येभ्यो जीवाद्यभावप्रतिपादकं शास्त्रं प्रतिपादयन्तो नान्तरीयकतयाऽऽत्मानं कर्तारं करणं च शास्त्रं तथा कर्मताऽऽपन्नांश्च शिष्यानवश्यमभ्युपगच्छेयुः, सर्वशून्यत्वे त्वस्य त्रितयस्याऽभावान्मिश्रीभावो व्यत्ययो वा । बौद्धा अपि मिश्रीभावमेवमुपगता:, तद्यथा- गन्ता च नास्ति कश्चिद् गतय: षड् बौद्धशासने प्रोक्ताः । गम्यत इति च गति : स्याच्छ्रुति : कथं शोभना बौद्धी ।। १ ।। तथा-यदि शून्यस्तव पक्षो, मत्पक्षनिवारक कथं भवति ? अथ मन्यसे न शून्यस्तथापि मत्पक्ष एवासौ ।। १ ।। इति स्पष्टमेव मिश्रीभावोपगमनं बौद्धानामिति । तथा सांख्या अपि सर्वव्यापितयाऽऽत्मानमभ्युपगम्य प्रकृति