SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 'साह?'त्ति, संहृत्यान्यस्मिन् भाजने ददाति, "तं फासुगमवि वज्जए, तत्थ फासुए फासुयं साहरइ, फासुए अफासुयं साहरइ, अफासुए फासुयं साहरइ, अफासुए अफासुयं साहरइ ४, तत्थ जं फासुए फासुयं साहरइ, तत्थवि थेवे थेवं साहरइ, थेवे बहुं साहरइ, बहुए थेवं साहरइ, बहुए बहुयं साहरइ ४" एवमादि यथा पिण्डनियुक्तौ । तथा निक्षिप्य भाजनगतमदेयं षड्जीवनिकायिकेषु ददाति तथा सचित्तंअलातपुष्पादि घट्टयित्वा-संचाल्य च ददाति । तथैव श्रमणार्थप्रव्रजितनिमित्तमुदकं संप्रणुद्य भाजनस्थं प्रेर्य ददाति ॥८९॥ ओगाहइत्ता चलइत्ता, आहरे पाणभोअणं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥१०॥ तथा ओगाहइत्ता-अवगाह्य-उदकमेवात्मनोऽभिमुखमाकृष्य ददाति । तथा चालयित्वा उदकमेव ददाति, उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थं सचित्तं घट्टयित्वेत्युक्ते ऽपि भेदेनोपादानं अस्ति चायं न्यायः-"यदुत सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थं भेदेनोपादानं, यथा-ब्राह्मणा आयाता वशिष्ठोऽप्यायात" इति, ततश्चोदकं चालयित्वा आहरेद् आनीय दद्यादित्यर्थः । किं तदित्याह-पान भोजनं-ओदनारनालादि । तदित्थम्भूतां ददतीं प्रत्याचक्षीत-निराकुर्यात् न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रद्वयार्थः ॥१०॥ पुरेकम्मेण हत्थेण, दव्वीए भाअणेण वा । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥११॥ 'पुरेकम्मे 'ति, पुरः कर्मणा हस्तेन-साधुनिमित्तं प्राक्कृतजलोज्झनव्यापारेण, तथा दक्-डोव-सदृशया, भाजनेन वा-कांस्यभाजनादिना ददतीं प्रत्याचक्षीत-प्रतिषेधयेत्, न मम कल्पते तादृशमिति पूर्ववदेव इति सूत्रार्थः ॥११॥ श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy