SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ जया निविदए भोए, जे दिवे जे य माणुसे । तया चयइ संजोगं, सब्भितरबाहिरं ॥४८॥ 'जया' इत्यादि, यदा निर्विन्ते भोगान् यान् दिव्यान् यांश्च मानुषान् तदा त्यजति संयोग-संबन्धं, द्रव्यतो भावतः साभ्यन्तरबाह्यंक्रोधादिहिरण्यादिसम्बन्धमित्यर्थः ॥४८॥ जया चयइ संयोगं, सब्भितरबाहिरं । तया मुंडे भवित्ता णं, पव्वइए अणगारियं ॥४९॥ 'जया' इत्यादि, यदा त्यजति संयोगं साभ्यन्तरबाह्यं तदा मुण्डो भूत्वा द्रव्यतो भावतश्च प्रव्रजति-प्रकर्षेण व्रजत्यपवर्ग प्रत्यनगारं द्रव्यतो भावतश्चाविद्यमानागारमितिभावः ॥४९॥ जया मुंडे भवित्ता णं, पव्वइए अणगारियं । तया संवरमुक्किळं, धम्मं फासे अणुत्तरं ॥५०॥ 'जया' इत्यादि, यदा मुंण्डो भूत्वा प्रव्रजत्यनगारितां तदा संवरमुक्किटुंति प्राकृतशैल्या उत्कृष्टसंवरं धर्म-सर्वप्राणातिपातादिविनिवृत्तिरूपं चारित्रधर्ममित्यर्थः, स्पृशत्यनुत्तरं-सम्यगासेवत इत्यर्थः ॥५०॥ जया संवरमुक्किटुं, धर्म फासे अणुत्तरं । तया धुणइ कम्मरयं, अबोहिकलुसंकडं ॥५१॥ ‘जया' इत्यादि, यदोत्कृष्टसंवरं धर्म स्पृशत्यनुत्तरं तदा धुनोतिअनेकार्थतया पातयति कर्मरजः-कर्मैवात्मरञ्जनाद्रज इव रजः, किंविशिष्टमित्याह-अबोधिकलुषकृतं अबोधिकलुषेण मिथ्यादष्टिनोपात्तमित्यर्थः ॥५१॥ जया धुणइ कम्मरयं, अबोहिकलुसंकडं । तया सव्वत्तगं नाणं, दंसणं चाभिगच्छइ ॥५२॥ 'जया' इत्यादि, यदा धुनोति कर्मरजः अबोधिकलुषकृतं तदा श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy